जयतु संस्कृतम्
कविता
जनता
त्यक्त्वा विकासमधुना कुरुते प्रचारं
सम्भाषते कृषकशस्यहिताय को$यम्?
कन्याधनं वदति हन्त सुतागृहं वा
शीघ्रं विमृश्य कवयो विलिखन्तु सर्वे।।
मध्यप्रदेशजनता मुदिताद्य घुष्टं
श्रुत्वा सुनेतृमुखरैः स्वविकासमार्गम्।
नन्दन्त्यहो गणयतीव दिनानि शिष्टा-
न्येवं दिवा सपदि पश्यति भाग्यरेखाम्।।
मूढा सखे सुजनता न तु वेत्ति तत्त्वं
निश्शुल्कशब्दसुखभाग् लभते सुदुःखम्।
वाक्यैः सदा नृचतुरैः परिवञ्च्यमाना
क्रन्दत्यहो धृतललाटकपाटपाणिः।।
निश्शुल्कशब्दजसुखं ननु देशभक्तिं
समार्जयत्यनुदिनं सुदृढां च पक्वाम्।
हा हन्त हा तदनु चेतति नैव पीता
सम्पीडिता तु जनता लघुवित्तलब्धा।।
पृच्छेत् स्वनेतृजनमेव समागतं तं
यो नाकरोत् यदवदन्मतदानकाले।
तत् पूरयेत् तदनु याचतु लज्जमानः
तं सञ्चिनोतु सुविचार्य न चान्यमेव।।
– डॉ. अरविन्द तिवारी