जयतु संस्कृतम्
कविता – सहसेऽधुना
जनते शुचौ निजमानसे वसुधाधृतिं धरसेऽधुना
खलनायकास्यविनिर्गतं कटुकं वचः सहसेऽधुना।
कलहंसकोऽयमिति प्रकल्प्य मुदा हि यं मनसाऽचिनोः
बकतुल्यकर्म विलोक्य तस्य नतानने व्यथसेऽधुना।
मथनेन या मधुरा सुधा श्रमसागरादिह निर्गता
छलिने प्रदाय मुधैव तां निजसम्मदं लषसेऽधुना।
नगरं सुपुष्पविनिर्मितं कपिहस्तयोः परिरक्षितुं
मनसा समर्प्य मनोहरं हि तदीक्षितुं यतसेऽधुना।
श्रमवर्जिता अलसा भृशं घृतभक्षणे निरताः खराः
लवणाम्बुधौ बत मज्जिते मलिनं मनः कुरुषेऽधुना।
अनयेन बालिशपुत्रकैस्तव कल्पवृक्षफलं हृतं
विषगर्भितं निकृतं फलं नयनाश्रुभिः पणसेऽधुना।
जनतन्त्रपावनमन्दिरे त्वमयेऽसि विश्रुतदेवता
विवशे परं जननायकाङ्घ्रिरजोऽवरं भजसेऽधुना।
मनुजत्वमत्र विमर्दितुं खलानायकास्तु समुद्यताः
दलनाय हन्त कथं न तत्फणमञ्जसा यतसेऽधुना
– डॉ.संजय कुमार चौबे