जयतु संस्कृतम्
कविता -सबलास्ते नैवाबलेयम्
नैव कोमला
नैव कातरा
सबलास्ते नैवाबलेयम्।
पातिव्रत्यबलेन
प्रत्याकर्षयति
मृत्योर्मुखात्
पतिप्राणान्
सबलास्ते सावित्री सा
नैव कोमला नैव कातरा
सबलास्ते नैवाबलेयम्।
आत्मशक्ति-बलेन
युद्धरता रणाङ्गणे
प्रत्यर्थिनः परावर्तयति
सबलास्ते झाँसीराज्ञी
लक्ष्मीबाई सा ।।
नैव कोमला नैव कातरा
सबलास्ते नैवाबलेयम् ।
बुद्धिकौशल-बलेन शासयति
रक्षयति च राष्ट्रं
सबलास्ते निर्मला सीतारमण सा ।
नैव कोमला नैव कातरा
सबलास्ते नैवाबलेयम् ।
– डॉ. मधुबाला शर्मा