जयतु संस्कृतम्
कविता – पेटिका लक्षवती
शुष्कपत्राणां छाद:
आर्द्रमृत्तिकाया: भित्तय:
मध्ये भित्तीनाम्
एकं पल्यङ्कं जीर्णं पुरातनं
गलिताङ्गम्
अप्यत्र वसति कोऽपि ?
आम्
एको वृद्ध:
अस्ति शयान:
तस्मिन् पल्यङ्के
उर्ध्वमुख:
पश्यन्नुपरि निश्चलं
न जाने किं
एकस्मात् तस्य
तीव्र: कास:
त्रोटयति गृहस्थं
मौन-क्रमं
पार्श्वे त्रिपादी
किमस्ति त्रिपाद्यां स्थापितं
पेटिका अस्त्येका
पेटिकान्त: रूप्या:
शतं सहस्रं
नहि
प्राय: लक्षाधिका एव
इयत्य: रूप्या: केन
प्रेषिता ?
तस्य सुतेनैव
नगरे सेवारतेन
प्रतिमासं
ता एव सञ्चिता: सन्त्यत्र
स जर्जर:
पुन: कासते
पूर्वत: तीव्रतरं
तीक्ष्णतरं
मुखं दोलति जलं जलं
पुनः कम्पते
जलं जजजलम्
स्थागित:
कास:
अवरुद्धं कम्पनं
मुखं स्थितम्
अनावृतमेव
नेत्रे अधुनापि उपरि
वीक्षते
सततम् अपक्ष्मपातम्
एकत: घट:
पानीयेन परिपूर्ण:
अन्यतश्च सा एव
पेटिका
लक्षवती
– डॉ.संस्कृता वीरभद्र मिश्रा