जयतु संस्कृतम्
कविता – न निर्णयः
काशीं यदा सेवे तदा काश्यां जनिं स्वां प्रार्थये
वृन्दावनेऽपि तथा मतिः, स्याद् जन्म कुत्र न निर्णयः ।।1।।
त्यक्तुं जनं तं स्वार्थिनं यावत् सखेऽहं चिन्तये
पूर्वं च कृत्यं तत्कृतं स्मृत्वा स्थिरोऽस्मि, न निर्णयः ।।2।।
पुत्रस्य वीक्ष्य कुसङ्गतिं ह्यध्यापितस्य धनोच्चयैः
तातस्तिरस्कुर्यात् श्रयेद् वाऽद्यापि कोऽपि न निर्णयः ।।3।।
एको न कर्तुं चेष्टते एकश्च वक्ति करोति नो
द्वावेव युद्धे सम्मुखौ जनताकृतेऽद्य न निर्णयः ।।4।।
जोषं स्थिताऽसि न वक्षि मां किञ्चिद् मुखात्, कस्मात् प्रिये !
दोषस्य कस्येदं फलं जातोऽधुनाऽपि न निर्णयः ।।5।।
इच्छामि मुक्तिमहं निजां संसारतोऽरसतः, परम्
वृन्दावने वसतोऽद्य मे तस्यां कुतोऽस्ति न निर्णयः ।।6।।
मथ्नासि सिकताः किन्तु तास्तैलप्रदा न, विदाङ्कुरु
ज्ञात्वा मया तत्सेवने विहितः कदापि न निर्णयः ।।7।।
– डॉ. राजकुमार मिश्र