जयतु संस्कृतम्
आयाहि कृष्ण!
आयाहि कृष्ण! भगवन् ! मुरलीप्रियाद्य
गोवर्धनाङ्गुलिधर! प्रणतारिनाशिन्!
गोपाङ्गनाहृदयदेशविहारकारिन्!
दैत्यघ्न! पाहि वसुधां प्रसृताद्विषाणोः।। १
नो सर्पतीव जनजीवनमेव पश्य
गेहे निबद्धजनता किल रोदितीव।
किन्तु प्रसन्नवदना हरते करोना
लोकश्रियं प्रतिदिनं विहरन्त्यजस्रम्।। २
आसीर्यदा भुवि हरे! निजगोकुले त्वं
नैकेsसुरा दनुजकंसवचो निशम्य।
हन्तुं विशालवदना अगमन् परन्तु
बाल्ये त्वयैव निहता निखिला विजाने।। ३
कंसोपमेन प्रहिता प्रियभारते नः
नीचेन विस्तृतमुखी दनुजा करोना।
हा रावयन्त्यनुदिनं रमते धरायां
किं लोक्यते न भवता भवतापहारिन्!! ४
जन्माष्टमीशुभतिथौ न तु याचे सत्यं
याचे परन्तु करुणालय! वेणुवादिन्!
चक्रिन्! द्रुतं हर विषाणुसुतां करोनां
स्वस्थं कुरुष्व मनुजानखिलान् विषण्णान्।। ५
– डॉ. अरविन्द तिवारी