जयतु संस्कृतम्
अथ वैद्यनाथपञ्चकम्।
न भक्तिं विना वैद्यनाथनस्य नैव
चिरं शान्तिसंस्थापनं चित्तवृत्तौ।
न शक्तिर्न वृत्तिर्न न वानन्दकन्द:
वदन्तीह के नो बुधा: हे सखाय:?1
न यो बिल्वपत्रं जनो वैद्यनाथ-
कृते सञ्चिनोतीव विद्वान् विमूढ:।
स जीवन् मृतो भारतीयो ब्रवीमि
विना वैद्यनाथं न शून्यं त्रिलोकम्? 2
अहो चैकमन्दारमालां विशालां
प्रियां वैद्यनाथाय नव्यां गृहीत्वा।
लसन् पङ्क्तिमध्ये चलन् मोदमान:
स सन्दृश्यते तत्सम: कोsत्र लोके? 3
न भस्माङ्कितो यस्य दिव्यो ललाटो
त्रिपुण्ड्रेन भव्य: स भक्तो न शैव:।
गुरुर्वैद्यनाथो न पश्यत्यभक्तं
कृतध्नं कुलघ्नं महापातकं तम्।4
न बं बं ध्वनिर्यस्य चास्यात् प्रयाति
जयो वैद्यनाथस्य सन्मन्दिरेsस्मिन्।
पतत्येष नूनं पुनर्जन्मसिन्धौ
कलत्रस्य वाचा परिदूयतेsसौ। 5
वैद्यनाथस्य भक्तेन रचितं पञ्चकं नवम्।
सर्वेषां सुखदं भूयात् कुर्वत् सन्मङ्गलं ध्रुवम्।। 6
– डॉ. अरविन्द तिवारी