सान्ध्यवेला गता चाSSगता रे निशा,
चाम्बरे शोभते सा निशानायिका।
स्वप्नलोके प्रयातुं सुते! तल्पके,
गच्छ गीतिं सुतायै प्रगायामि ते।।१
गायन्नस्मीह कन्ये! त्वदीयं प्रियं,
वेद्मि सङ्गीतकं भाति ते म...
" भो धेनु वत्स: तिष्ठ....!"
आसीत् प्रकृत्या कृपण: एको धनिक: । तस्य अन्नादिनां क्रयविक्रयो: एकं प्रतिष्ठितमधिष्ठानम् प्रगतिशील: स्म। परञ्च स: कस्यचिदुपरि न विश्वसति।
तेन अधिष्ठाने नाप-तौल-वित्...
गृहस्थान्तर्गृहस्थास्ते दीपा: दीव्युरहर्निशम्।
दिव्यप्रदीपपर्वणि ।।1।।
कवीनां काव्यदीपैस्त्वं लोकान्धन्तमांसि हर।
दीपत्वं सार्थकीकुरु।।2।।
पूजयित्वा निजं देवं शुभलक्ष्मलक्ष्मीनुतम्।
विद्धि...
१. चित्ते सुखं भजति तुष्यति नित्यवाञ्छां,
ख्यातिं प्रसारयति कष्टमपाकरोति |
भद्रं वृणोति ननु पुष्यति सर्वसिद्धिं,
मिथ्यास्तुति: कथय किं न करोति पुंसाम् ||
अर्थात् झूठी प्रशंसा (चाटुक्ति) ह...
रात्रौ शशांकः
उन्मत्तयात्रिकेव
मया लक्षितः।
**********
नद्या प्रेषितम्
स्खलितकूलं द्रष्टुम्
मेघाय पत्रम्
**********
मनःपृष्टवान्
प्रेम्णो निष्पीडनात् किम्
रक्तं वहति ?
**********
केन नि...
ऋतं विलपद् धावद्भाति
अनृतमेतद् विहसद्माति
कृतं निपतद् विचलद्भाति श्रूयते कलिमाया मित्र!
उलूकः पश्यति दिवाधुना
किंशुको गन्धं वहतीति
मूर्च्छिता पुनर्नवा बाभाति कथ्यते कलिमाया मित्र!
मदिरमत्...
कवे! पदे पदे कथं कृतघ्नता वितन्यते?
कवे! पदे पदे कथं कृतघ्नता वितन्यते? १
शिशु: स्वपालितो मुहुर्युवेह घुर्घुरायते।
कवे! पदे पदे कथं कृतघ्नता वितन्यते? २
प्ररोपितं सुमं क्षणे क्षणे नु कण्टका...
गणादिपालं वदनाविशालं
सुमन्दचालं रमणीयभालम्।
भवार्णवे भक्तभयापहारं
नमामि गौरीसुतनन्दलालम्।।
सरक्तसिन्दूरविलेपिताङ्गं
विशेषदूर्वाङ्कुरपूजितांशम्।
शिवप्रियं मोदकमोदमानं
नमा...
विवर्णाः कथमरे पारावतास्ते!
समे किल हट्टताले व्याधकास्ते!!
पिका इव मौनवक्त्रा सज्जनास्ते
विलोके वाग्मिनो ननु वायसास्ते!
जनास्संशेरते निजभावतल्पे
किणाङ्काः किन्तु हस्ते रौधिरास्ते!
सदा त...
हरिरिह मन्दसुगन्धिसमीरे
क्रीडति कालिन्दीतीरे।।
वितरति चोरितनवनवनीतं ,
गायति ससखि मनोहरगीतं ,
विलसति नीलकमलमिव नीरे।। क्रीडति•••
रचयति रुचिरं नवलोद्यानं ,
सिकतोच्चयतो भवनवितानं,
रथयति ...




