फरवरी 2020
अंक - 57 | कुल अंक - 58
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
श्रीकृष्ण पंचकम्
 
आयातासि कथं सुदूरमधुना नक्तं गृहाद् गोपिके
निद्रा नैति यतोऽद्य सा नयनयोःस्वप्तुं गताया हरे।
कर्तुं किं प्रभवामि,किन्न मधुजित्, तत्प्रोक्तवत्यां ततो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपी काचिदुपेत्य विभ्रमवती वृन्दावने मोहनं
ब्रूते पश्य वनेऽत्र मेचकतनो चेतः समुत्कण्ठते।
वेणुं वादय साम्प्रतं तव कृपा मय्यस्ति चेत्सा ततो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।
 
विष्णोर्यत् परमं पदं निगदितं पश्यन्ति यत् सूरयो
यत्प्राप्तिश्च महत्तमस्य सुकृतो विज्ञैः फलं प्रोच्यते।
तेनैवेह पदेन नन्दतनयो वृन्दावनं पावयन्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
वाता वान्ति भयेन यस्य सततं नद्यश्च यान्त्यर्णवं
सूर्यो नित्यमुदेत्यसौ च समये ताराश्च दीव्यन्ति खे।
प्रीत्या गोकुलवासिनां धृततनुर्गोपांगनामोहनो
वेणुर्वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
भूमिर्वार्यनलःसदागतिरथाकाशाभिधःपञ्चमो
देहे तत्र मनश्च बुद्धिरथ सोऽहंकार इत्यष्टधा।
यस्येयं प्रकृतिर्बुधैर्निगदिता भूत्वा स नन्दात्मजो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
देवक्यां वसुदेवतःशिशुरभूत् कंसस्य कारागृहे
नन्देनाथ यशोदया सुत इव प्रीत्या च संवर्धितः।
क्रीडन् गोपसुतैर्व्रजे व्रजवधूचित्तापहृत् कोऽप्यसौ
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
साधूनां परिरक्षणाय भुवने नाशाय यश्चासतां
गोलोकाद्भुवमागतो मुररिपुर्नीलाञ्जनाभद्युतिः।
गोपान् गोपवधूश्च गाश्च विविधैरानन्दयन् कर्मभिर्
वेणुं वादयते जगत्त्रयगुरुः कृष्णो जगत्प्रीतये।।
 
हृद्देशेऽखिलदेहिनामभिहता प्राज्ञैःस्थितिर्यस्य सा
जीवान्भ्रामयतीह यश्च सकलान्यन्त्राधिरूढानिव।
चित्रं तं भ्रमयन्ति गोपललनास्ताभिर्नियुक्तो हरिर्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
यो जाम्बूनदकान्तिमत्सुरुचिरं वासो वसानोऽद्भुतं
गोपीभिर्मणिभंगमेचकतनुर्वृन्दावने सेव्यते।
सोऽयं र्गोपसुतैर्मुदा परिवृतो गोपालताराधिपो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
देवा विद्विषते मिथो न महसो यस्य स्थिताः शासने
नैवेमे च वियन्ति तत्र विबुधा येनानुशिष्टाः क्वचित्।
भूत्वा श्यामसरोरुहाभवदनो गोपीप्रियःसोऽधुना
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपीं पृच्छति वीक्ष्य शून्यहृदयां काञ्चित् सखीं गोपिका
चित्तं ब्रूहि तवास्ति केन मुषितं येनाधुनासीदृशी।
ब्रूते सा न शृणोषि किं सुवचने रम्ये तटे यामुने
वेणुं वादयते जगत्त्रयगुरुः कृष्णो जगत्प्रीतये।।
 
धन्या भारतभूरियं सुविदिता धन्यं च वृन्दावनं
धन्या गोपगणाश्च गोपवनिता धन्याश्च गावोऽपि ताः।
क्रीडन्यत्र स नीलनीरदरुचिःकारुण्यवारांनिधिर्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गत्वा कापि गृहं ब्रवीति सुमुखी गोपी यदूनां पतेर्
"बालो रोदिति नन्दनन्दन स मे शुश्रूसते वैणवम्"।
तस्यास्तद्वचनं निशम्य मधुजिद् भक्तेष्टसिद्धिप्रदो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोप्यो न प्रभवन्ति सम्प्रति गृहे स्थातुं यतोऽसौ हरिः
श्यामांगःकनकाभपीतवसनःस्निग्धेक्षणो मोहनः।
कालिन्दीपुलिने स्थितःपरिवृतो गोभिश्च गोपैःपुनर्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपी कापि गृहे स्थिताह जननीं मातः प्रसीदात्र मे
यातुं वाञ्छति साम्प्रतं मम मनो गेहं यदूनां पतेः।
किं तत्रेति,स तत्र नन्दतनयःप्रायेण सायं सदा
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपी कापि यदा क्वचिन्न दिवसे वृन्दावनं गच्छति
नैवाकर्णयति स्वरं सुमधुरं वेणोर्हरेर्निःसृतम्।
सा सुप्ता निशि तत्र चारुनयना स्वप्ने ततः पश्यति
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपालेन्दुशरीरकान्तिसदृशं मेघं विलोक्योन्नतं
गोप्यःसत्वरमेत्य नन्दतनयं केनापि भावेन तम्।
पश्यन्तीति स चापि ता उपगता सर्वाःपुनःप्रीणयन्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
थन्येयं पृथिवीतले वसुमती ख्यातिंगता भारती
धन्यं कुञ्जलतावितानरमणं तत्रापि वृन्दावनम्।
यत्रासौ त्रिदशैःस्तुतो मुररिपुर्गोपीजनैःप्रार्थितो
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
यस्यायत्तमिह त्रितापशमनं प्रोक्तं बुधैःप्राणिनां
तस्य प्रार्थयते सुतस्य सदया सौख्यं यशोदा व्रजे।
सोऽपि प्रीतिपरायणःप्रतिदिनं मातुःप्रसादाप्तये
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
योऽसौ पालनतत्परोऽत्र जगतां विश्वम्भरःकीर्त्यते
चित्रं,तं परिपालयत्यनुदिनं माता यशोदा व्रजे।
अन्यच्चापि स नीलनीरदतनुर्मातुःप्रसादाप्तये
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
गोपानां परिरक्षणाय च गवां त्राणाय गोवर्धनं
धृत्वा योऽद्भुतकर्मणात्र मनुजान् स्वर्गे च देवानपि।
साश्चर्यान् व्यदधात्प्रपन्नशरणो गोविन्द इत्यर्थवान्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
छेत्ता यो भवबन्धनस्य विबुधैः सर्वस्य संस्मर्यते
मातुर्बन्धनमाप्तवान् स चपलःपश्यन्तु  चित्रं व्रजे।
तामाराधयितुं स दीनवदनो बन्धात्ततो मुक्तये
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
क्रीडायां परिहासकर्मनिपुणा प्राणेश्वरी सा हरे
राधा तत्र निलीयते यदि वने कुञ्जे क्वचिन्माधवात्।
अन्वेष्टुं यतते स तां प्रियतमां लब्धुं समर्थो न चेद्
वेणुं वादयते जगत्त्रयगुरुःकृष्णो जगत्प्रीतये।।
 
लोके यस्य  कृपां विन न कुशलः कोऽप्यत्र सन्तिष्ठते
तस्य प्रार्थयते सुतस्य कुशलं माता यशोदा व्रजे।
मातुः सोऽपि मुदे हृदा नटवरस्तां सर्वथा भावयन्
वेणुं वादयते जगत्त्रयगुरुः कृष्णो जगत्प्रीतये।।
 

- जगदीश प्रसाद सेमवाल

रचनाकार परिचय
जगदीश प्रसाद सेमवाल

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (1)