जनवरी 2020
अंक - 56 | कुल अंक - 56
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
।।जयति जयति मानवीया माया।।
 
जयति जयति माया मानिनी माननीया
निपतति खलु यस्या: पादयोर्दानवीया।
विचरति गगने या स्यन्दने वारिदानां
भवति च पदचिह्नं भूतले पश्य तस्या:।।1
 
प्रवहति खलु यस्या नेत्रयोरश्रुधारा
विलसति हृदि तस्या तीक्ष्णतीक्ष्णासिधारा।
धृतमणिमयहारा दीनता कापि नव्या
रतिरसपरिपूर्णा कापि कारुण्य कूल्या।।2
 
हरति जनविलासं सौख्यमुत्पादयन्ती
विहरति शवभूमौ मन्दमन्दं हसन्ती।
बुधजनगणमंचे सेविकेयं सुराणां
पिबति च मधुरक्तं सेविकाभिर्निशायाम्।।3
 
अहिपतिकुलकान्तं चेतसा संस्मरन्ती
गरलदशनदोषाख्यानमालां वहन्ती।
शतदलदलशोभारक्षणार्थं प्रवृत्ता
करिवरपदपूजां या करोतीह नित्यम्।।4
 
मलयजमधुवातैस्तापमाप्नोति नित्यं 
विषधरफुफकारैश्शान्तिरायाति तस्या:।
गरलधरसुरक्षायां सदा चन्दनानां
मधुरिमपदबन्धैर्गीतमभ्यस्यतीयम्।।5
 
ब्रजति यदि सुरेशीं दिक् तदा पश्चिमाद्रौ
सघनविपिन कुंजे रासलीलां तनोति।
जलधितलगतेयं रत्नमन्वेषयन्ती
कनकगिरिशिखायां नृत्यतीशप्रसादात्।।6
 
हरति गमनवृत्तिं गर्दभैर्या हयानां
वमति रटितशब्दं लोकमंचे सुराणाम्।
भ्रमति मधुररूपा काममामोहयन्ती
शपति रतिविलासं केलिगेहे$पि यूनाम्।।7
 
*************************************
 
।।जयति जयति सा$पि।।
 
जयति जयति वाणी सा$पि या चिन्तकानां
वदनभवनकक्षे रम्यपर्यङ्कपृष्ठे।
निवसति सुखभोगैर्लोकभावानभिज्ञा
निजगतिमतिहीना सेविका नेत्रहीना।।1
 
सरति सुखदनाथादेशमादाय शीघ्रं
सुपथकुपथचिन्ता यान्न बध्नाति मार्गे।
तदनुगतजनेभ्यो वन्दिता सा सदैव
सरतु शुभगहेतौ यातु वा कालगर्ते।।2
 
दुरितदहनगर्ते पूतिपंकप्रपूर्णे
स्वयमिह पतितां तां चावलोक्यापि तस्या:।
हृदयगतविचारौचित्यमस्तीह नो वे-
त्यनुदिनमिह सूक्ष्मं चिन्तयन्त्यत्र विज्ञा:।।3
 
जयति जयति यस्या: सत्प्रसादाद्धि लोके
पदपरिचयदीना अप्यभिज्ञानवन्त:।
जनयति च पदार्थं यस्स्वलाभाद्धि नित्यं
भवति च जनमध्ये वन्दित: पूजितश्च।।4
 
किमियं नवकुन्देन्दुप्रभेव प्रसिद्धा
विधिवदनसरोजे जीविता हंसिनी वा।
तदुदितगुणवह्निज्वालया दग्धचित्ता
प्रतिहरति तदीयं गौरवं तच्छलेन।।5
 
विलसति यदि काचित्तद्गुणेन्दोर्निहन्त्री
नहि कथमिह कश्चित्तद्विरोधप्रमत्त:।
यदि भवति कदाचित् तर्हि तद्रोधनेन
स्वसुखकुसुमवल्लीं हासयन्तो विशिष्टा:।।6
 
यदि निजपदरोधोद्भेदने सा प्रवीणा
विहसति रिपुपक्षस्यात्मदौर्बल्यमेव।
तदपि यदि तदीया जिविताशा न भग्ना
जयति नहि कथं सा नन्दिता निन्दनीया।।7।।
 
***********************************
 
।।कविता शपति त्वदर्थम्।।
 
रे रे निकृष्टमदनानलदग्धचित्त!
प्रीतिप्रियामरलताकलिकाप्रमाथिन्।
लब्धामृतस्य गरलत्वनिदर्शनेन
त्वज्जीवनं किमिति चिन्तयतीह कश्चित्।।1
 
लोष्ठैर्विचूर्णितवती निजगर्भभारं
पूर्वं कथन्न जननीति विचिन्त्य कण्ठे।
पाशं नियोज्य सुजनैर्विनिवारितापि
स्मृत्वा किमप्यचिरमेव तथा करोति।।2
 
गेहे स्थितस्तव पिता प्रतिवेशिनेत्रा-
भ्यां भीत एव नयनाश्रुजलं निपीय।
मृत्यो: पदाब्जयुगले निजजीवनाख्यं
नैवेद्यमर्पयितुमिच्छति कस्य पापात्।।3
 
को नाम नात्र निजजातकजीवनस्यो-
द्यानप्रसूनमकरन्दविलोकनोत्क:।
किञ्चाद्य पश्य नवचित्रमिदं धरायां
त्वज्जीवनं हरति जीवनमेव पित्रो:।।4
 
या जीवनस्य जननी युवमोददात्री
रिक्तापि शुद्धशरदिन्दुकलाभिरामा।
संसारकाननमिदं न यया विना स्यात्
सा जीवितैव निहतात्र विनैव हेतुम्।।5
 
क्रौञ्चीविलापदलितो मुनिरत्र सर्वं
विस्मृत्य दुष्टहतकं सहसा शशाप।
धातुर्विलासवसते: रमणीयकन्दा-
क्रन्दं विकल्प्य कविता शपति त्वदर्थम्।।6
 
धाता कदापि नहि चिन्तयतु त्वदर्थं
दण्डो यमस्य सततं तव मस्तके स्यात्।
गोष्ठानलासनगतं वदनं त्वदीयं
मन्दं विलुञ्चतु चिरं यमदूतमुख्य:।।7
 
त्वत्कर्मणा$द्य मदनो शिशुचन्द्रभूषं
स्तौतीह शूलधर दाहय मां पुनस्त्वम्।
पापं मदीयमवशिष्टमिहास्ति किञ्चित्
यद्भारभुग्नवदने न रतिर्मदीया।।8

 


- डॉ. निरंजन मिश्र

रचनाकार परिचय
डॉ. निरंजन मिश्र

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (2)