प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
जून 2019
अंक -51

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
आलेख:- जलवायु-परिवर्तनं पर्यावरण-संरक्षणं च  
                                  
जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः
समेधमानायाः जन-संख्यायाः कारणात् खाद्य-संसाधनानाम् आवश्यकताः अपि समेधन्ते | अमुना कारणेन प्राकृतिक-संसाधनेषु आपीडः अपि सततं वर्धते | जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः कृषौ समापतति, यथा हि तापमानेन, वृष्ट्यादौ परिवर्तनेन, मृदा-क्षमतायाः अपक्षयेण, सामान्य-स्तराद् आधिक्येन कीटाणूनां रोगाणां च प्रसारेण एतत् सुस्पष्टं भवति । जलपूराणां अनावृष्ट्यादि-घटनानां च पौनःपुन्येन आवृत्ति-कारणात् अतितरां सञ्जायमानं जलवायु-परिवर्तनं कृषिं प्रतिकूलतया प्रभावयति, एतस्मात् कारणात् शस्यादीनां उत्पादन-मितिः अपक्षीयते | जलवायु-परिवर्तनस्य कारणात् अनेकाः प्रजातयः अपि विलुप्ताः सन्त | 
 
जलवायु-परिवर्तनस्य कारणानि                                     
विगतेभ्यः कतिपय-वर्षेभ्यः जलवायौ बृहन्मात्रिकं परिवर्तनं दृग्गोचरीभवति | एतानि कारणानि प्राकृतिकानि मानव-निर्मितानि चेति द्विधा विभक्तुं शक्यते |
प्राकृतिकानि कारणानि 
महा-द्वीपानां प्रस्खलनानि, ज्वालामुखि-प्रस्फोटनानि, सामुद्रिकाः तरङ्गाः, पृथिव्याः परिभ्रमणम् चेत्यादीनि प्राकृतिकानि कारणानि सन्ति यानि जलवायु-परिवर्तने हेतुतां भजन्ते |
 
मानव-निर्मितानि कारणानि
कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], मीथेन-नाइट्रस्-ऑक्साइड् - [ पुष्कल्य-भूयीय-अम्लवायुः ] - सदृश्यः ग्रीन्-हाउस्-वातयः प्रामुख्येण जलवायु-परिवर्तनस्य मानव-निर्मितानि कारणानि वर्तन्ते | एतासु कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ] उच्च-उत्सर्जन-शीलः परिगण्यते | यदा वयं तैल-कृष्णाङ्गार-प्राकृतिकवाति-प्रभृतीनां ईन्धनानाम् उपयोगं कुर्मः, अथवा वृक्षाणाम् उच्छेदनं कुर्मः तदा कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], पर्यावरणे मिश्रीयते | औद्योगिक-कारणैः विविधैः वाहनैः च उत्सृष्टस्य धूम्रस्य पर्यावरणे सञ्जायमानं   सम्मिश्रणं हि जलवायुं पर्यावरणञ्च दूषयति |
         
पर्यावरणस्य परिभाषा 
पृथ्वी-जल-तेजोवायु-आकाशेति पञ्चमहाभूतानि अस्मान् परितः प्रवर्तन्ते | एतेषां पञ्च-महाभूतानां समवायः एव परिसरः आहोस्वित् ‘पर्यावरणम्’ इति पदेन व्यवह्रीयते। एवमपि अवगन्तुं शक्यते यत् मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्वं पर्यावरणम् इति शब्देन अभिधीयते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते |
भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षा-कवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । एवमपि अवगन्तुं शक्यते यत् "परितः आवृणोतीति पर्यावरणम्।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं चेति पञ्चमण्डलानि सन्ति। एतेषां प्रभावेण ऋतुचक्रं प्रवर्तते।
 
प्रवर्तमानं पर्यावरणम्                                
सम्प्रति न केवलं भारते अपितु समस्ते भूमण्डले प्राकृतिकम् असन्तोलनं समुत्पन्नम् । कुत्रचिद् अनावृष्टिः अतिवृष्टिः च भवतः साम्प्रतम् । वैज्ञानिकानां मन्तव्यानुसारेण केवलं पृथिव्यामेव जीवनं वर्तते, तदपि प्रदूषणेन शीघ्रमेन विनाशम् एष्यति । अनेन असन्तोलनेन विषव्रण-कर्कट-हृदयरोग-रक्तचापादयः असाध्याः रोगाः  समुत्पद्यन्ते । 
प्रवर्तमान-पर्यावरणस्य अपरिहार्यत्वम्                                       
जनसंख्याविस्फोटेन औद्योगिकीकरणेन व प्रदूषणस्य एषा समस्या समुत्पन्नास्ति | पञ्चाशद्-वर्षपूर्वं विश्वस्य जनसंख्या द्वि-अर्बुदपरिमिता आसीत् । अधुना तु पञ्चार्बुदपरिमिता जाता ।
जनानाम् अवश्यकतापूर्तये उद्योगानां राजमार्गाणां जलावष्टम्भानां रेलमार्गाणां सञ्चार-साधनानां च विस्तरः अपेक्षितः,अतः स्वार्थनिरतेन मानवेन प्रकृतिकोषात् मृत्प्रस्तर-धातु-काष्ठादीनि परिलुण्ठितानि । यदि इत्थमेव प्रदूषणेन तापवृद्धिर्भवेच्चेत् तर्हि ध्रुवक्षेत्रे हिमगलनेन जलप्रलयः भविष्यति ।
मुख्यरूपेण भूमि-जल--वायु-ध्वनि-प्रदूषणानि सञ्चारितानि । वायुना कीटाणवः इतस्ततः नीयन्ते । वायुना विना न जीवन्ति जीवधारिणः। शिलातैल-चालितानि यानानि उपग्रह-प्रक्षेपक-राकेट्-यानानि च प्रतिक्षणं विषमिश्रितं धूमं वायौ मिश्रयन्ति।
 
पर्यावरणस्य प्रदूषणात् समुत्पन्नाः समस्याः     
अनेन प्रदूषणेन भूमेः शीतोष्णपरिकरबन्धः विच्छृंखलितः भवति । मलमूत्र-प्रणालीनां तैल-शोधक-रसायनानां प्रदूषित-जलेन कूप-नदी-जलाशयानां जलराशिः विषाक्तः भूत्वा विषूचिका-पाण्डु-जलोदर-रोगान् जनयति । कीटनाशकानां वर्धमानेन प्रयोगेण पृथिव्याः अन्नफलादीनि प्रदूषितानि जायन्ते ।   
महानगरेषु वाहनानां निर्बाध-प्रचलनेन ध्वनि-प्रसारयन्त्र-विज्ञापनेन नूतनयन्त्राणां निनादेन कर्णस्फोटकध्वनिः रात्रिन्दिवं समुत्पद्यते तेन मानवस्य मनःशान्तिः विलुप्ता, जनाः अनिद्रारोगेण विक्षिप्ताः इव सन्ति।
 
पर्यावरण-प्रदूषणस्य निरोधाय केचन समुपायाः 
पर्यावरण-प्रदूषण-निरोधाय जनाः यत्र तत्र ष्ठीवनं मलमूत्र-उत्सर्जनं नैव कुर्युः । गृहस्य रथ्यायाश्च प्रणाल्यः स्वच्छाः स्युः । बालकाः युवकाः, कृषकाः युवत्यश्च विद्यालयेषु, उद्यानेषु क्षेत्रेषु गृह-उद्यानेषु च आधिक्येन वृक्षारोपणं कुर्युः । वृक्षच्छेदकानां कृते दण्डव्यवस्था भवेत् । महानगरेषु मध्ये मध्ये सघनानां हरितानाम् उद्यानानां विकासेन वायु-प्रदूषणं न्यूनं कर्तुं शक्यते ।
वस्तुतः समस्यानां निराकरणं युक्तिसंगतेन समाधानेन सम्भवम् । वर्त्तमानयुगे पर्यावरणशोधनस्य परमावश्यकता अनुभूयते ।
 
वैदिक-सनातन-पद्धतौ पर्यावरणस्य महत्वम्  
प्रबुद्धाः भारतीयाः पुरा वायु-शुद्ध्यर्थं हवनादिकं नित्य-कर्मत्वेन कुर्वन्ति स्म | ते वृक्षारोपणं कुर्वन्तः सूर्य-पवन-वरुण-वनस्पतीनां स्तुतिञ्च गायन्ति स्म । येन ते सुखेन स्वजीवनं यापयामासुः।
अद्यत्वे न कश्चन तादृशः देशः वर्तते यो हि पर्यावरण-सङ्कटस्य निरासार्थं विचार-मन्थनं नैव करोति | एतदर्थं  भारतमपि चिन्तितमस्ति । परञ्च यत्र अपरे देशाः भौतिक-चाकचिक्येन सर्वस्वमपि प्रायेण प्रणाशितवन्तः, तत्रैव भारतस्य पार्श्वे साम्प्रतमपि सुबहु अवशिष्यते । पाश्चात्य-देशाः प्रकृतिम् अतितरां प्रदूषयन्ति, काननानि उच्छेद्य वज्रचूर्ण-प्रस्तर-काननानि निर्मितवन्तः | न ते अस्य गम्भीर-परिणाम-विषये विचारितवन्तः ! प्रकृति-संरक्षणस्य कश्चन संस्कारः अखण्ड-भारतभूमिम् अतिरिच्य नान्यत्र दृश्यते ।
वैदिक-सनातन-परम्परासु प्रकृति-संरक्षणस्य सूत्राणि सर्वत्र समुपलभ्यन्ते । भारते प्रकृति-पूजनं हि प्रकृति-संरक्षणत्वेन आमान्यते । भारतीय-संस्कृतौ भारतीय-वाङ्मये च पादपानां वृक्षाणां नदीनां पर्वतानां ग्रह-नक्षत्राणाम् अग्नि-वायु-प्रभृतीनां प्रकृतेः च विभिन्न-रूपाणां सम्बन्धः मानवीय-जीवनेन साकं ख्यापितः । वृक्षाः सन्तति-रूपाः सरितश्च मातृ-रूपाः ग्रह-नक्षत्र-पर्वताः च देवतुल्याः परिगणिताः सन्ति । भारतस्य चिन्तकाः कवयः वैज्ञानिकाः ऋषयः मुनयश्च प्रकृति-संरक्षणं मानव-स्वभावञ्च सम्यक्तया अवगच्छन्ति स्म | महाकविः कालिदासः स्वीये “कुमार-सम्भवम्”- इति महाकाव्ये प्रप्रथमे श्लोके हिमालयं देवतात्म-रूपेण वर्णयति - “अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः|”  
 
ते नाम जानन्ति स्म यत् स्वीय-क्षणिक-लाभार्थं मानवः अनेकेषु अवसरेषु गभीरां त्रुटिम् आचरति, आत्मनः एव हानिञ्च आपादयति | अत एव ते प्रकृत्या साकं मानव-सम्बन्धान् विकासितवन्तः, येन प्रकृतेः अपक्षरणं रोद्धुं शक्येत । इदमेव कारणं यत् प्राचीन-कालात् भारते प्रकृत्या साकं महत्वपूर्ण-संस्कारः ऋषिभिः प्रतिष्ठापितः।
वं सत्यपि, भारते भौतिक-विकास-स्पर्धायां प्रकृतिः पददलिता सञ्जाता। परञ्च, एतदपि सत्यमेव यत् यदि एताः परम्पराः नाभविष्यन् चेत् भारतस्य स्थितिः इतः परमपि गभीरे संकटे समापन्नस्य कस्यचन पश्चिमीय-देशस्य सदृशी अभविष्यत् । वैदिक-सनातन-परम्परासु सर्वत्र प्रकृतेः संरक्षणं सविशेषं निर्दिष्टम् । एतासु परम्परासु प्रकृत्या साकम् अस्मदीयः कियान् घनिष्ठः सम्बन्धः वर्तते इति तथ्यं तु अमुना प्रमाणेन एव अवगन्तुं शक्यते यत् जगतः प्राचीनतमस्य ग्रन्थस्य ऋग्वेदस्य प्रथमः मन्त्रः अग्नेः स्तुतौ साक्षात्कृतः - “अग्निमीळे पुरोहितं...  रत्न-धातमम्” इति।
 
वैज्ञानिकी भारतीया जीवन-पद्धतिः 
भारतीया जीवन-पद्धतिः वैज्ञानिकी वर्तते । आहोस्वित् एवं वक्तुं शक्यते यत् प्रत्येकमपि भारतीया परम्परा वैज्ञानिक-रहस्यान्वितास्ति । एतानि रहस्यानि प्रकटितानि स्युः । “जीवतु जीवयतु चे”त्यस्ति भारतस्य सनातन-दर्शन-सिद्धान्तः । अस्य सह-अस्तित्वस्य सिद्धान्तः एव प्रकृतिं प्रति एनम् अधिकतरं सम्वेदनशीलं विदधाति । वैदिक-वाङ्मये प्रकृतेः प्रत्येकमपि अङ्गस्य संरक्षणस्य सम्वर्धनस्य च निर्देशः प्राप्यते । अस्माकम् ऋषयः अवगच्छन्ति स्म यत् पृथिव्याः आधारत्वेन वर्तते - जलम् अरण्यञ्च । अत एव “यज्ञ-प्रक्रिया” नाम “प्रदान-प्रक्रिया” इति ख्यापयन्तः ते कथयन्ति - “यज्ञात् भवति पर्जन्यः पर्जन्याद् अन्न-सम्भवः| अन्नाद् भवन्ति भूतानि यज्ञः कर्म-समुद्भवः |”... 
 
काननं नाम आनन्ददायकमिति वर्णयन्तः अस्मदीयाः ऋषयो निगदन्ति - 'अरण्यं ते पृथिवी स्योनमस्तु।'  इदमेव कारणं यत् भारतीय-जीवने ब्रह्मचर्यम्, वानप्रस्थम् संन्यासञ्चेति आश्रम-चतुष्टये त्रयस्य साक्षात् सम्बन्धः अरण्येन साकं वर्तते। वयं वक्तुं शक्नुमः यत् एतेषु काननेषु एव भारतस्य सांस्कृतिक-रिक्थस्य सम्वर्धनं सञ्जातम्। भारतीय-संस्कृतौ वृक्षाः देवतात्वेन पूज्यन्ते । एतस्माद् कारणात् वैदिक-सनातन-पन्थानुयायिनः भारतीयाः स्वभावतः एव वृक्ष-संरक्षकाः भवन्ति । सम्राजः विक्रमादित्यस्य अशोकस्य च शासनावधौ वनानां रक्षा प्राथम्याधारेण विधीयते स्म । विष्णुगुप्तः चाणक्यः स्वीये सुख्याते “अर्थशास्त्रे” व्याहरत् यत् आदर्श-शासन-व्यवस्थायाम् अनिवार्य-रूपेण अरण्यपालानां नियुक्तिः स्यात् ।
 
अस्माकं महर्षयः सम्यक्तया जानन्ति स्म यत् वृक्षेषु अपि चेतना प्रवर्तते । अत एव ते मानव-तुल्याः परिगण्यन्ते । एतद्विषयकाः सन्दर्भाः ऋग्वेदे, बृहदारण्यकोपनिषदि, पद्मपुराणे, मनुस्मृतौ अन्येषु चानेकेषु ग्रन्थेषु लभ्यन्ते । छान्दोग्योपनिषदि ऋषिः उद्दालकः स्वीय-पुत्रं श्वेतकेतुम् आत्मनः स्वरूपं वर्णयन् कथयति यत् वृक्षाः जीवात्मना समन्विताः भवन्ति, अपि च, मनुष्यवदेव सुखानि दुःखानि चानुभवन्ति । भारतीय-दर्शनानुसारेण एकः वृक्षः मनुष्यस्य दशभिः पुत्रैः तुल्योsस्ति - 'दशकूपसमा वापी: दशवापीसमो हृद:। दशहृदसम: पुत्रो दशपुत्रसमो द्रुम:।।'
 
भारतीयाः गृहे तुलसी-पादपं साग्रहं कथं धारयन्ति - इति तथ्यं साम्प्रतं सुसिद्धं यत् अयं पादपः मानवाय सर्वाधिकं प्राणवायुं प्रापयति । तुलसी-पादपे अनेके औषधीय-गुणाः अपि सन्ति । पिप्पलः अपि पर्यावरणे सर्वाधिकं प्राणवायुं प्रसारयति, अत एव भारतीयाः पिप्पलं नियमितरूपेण देवतुल्यं मत्वा पूजयन्ति । अद्यत्वेsपि कुटुम्बस्य सामान्या गृहिणी स्वीयं अबोधं बालं सहजतया बोधयति यत् पादपाः वृक्षाः च रात्रौ नैव स्पर्शनीयाः प्रतोदनीयाः वा यतो हि रात्रौ एते स्वपन्ति ।
 
देवाधिदेवः महादेवः बिल्व-पत्रैः कण्टालुना [धस्तूरेण ] च प्रसन्नो भवति । अतः शिवभक्ताः सविशेषं बिल्वपत्र-कण्टालु-वृक्षान् संरक्षन्ति । वट-पूर्णिमायाः आमलकी-नवम्याः च पर्वणोः आयोजनं तदैव सम्भाव्यते यदा हि वटवृक्षाः आमलकी-वृक्षाः च पृथिव्याम् अवशिष्टाः स्युः । विद्या-देव्यै भगवत्यै सरस्वत्यै पीत-पुष्पाणि रोचन्ते । वैभव-प्रदायिन्यै महालक्ष्म्यै कमलानि पाटलानि च रोचन्ते | विनायकः श्रीगणेशः दूर्वा-पत्रैः प्रसीदति। सनातन-धर्मस्य प्रत्येकमपि देवः देवी वा पशु-पक्षिणां पादप-वृक्षाणां प्रकृतेः च विविधानाम् अङ्गानां संरक्षणार्थं सबलं सविशेषं च सन्दिशति।
 
एतादृश्याः वैज्ञानिक्याः पर्यावरण-चेतना-पूर्णायाः च  जीवन-पद्धत्याः अङ्गीकरणेन एव वयं आधुनिकेsस्मिन् जीवने सम्मुखीक्रियमाणाः पर्यावरण-समस्याः समाधातुं निश्चयेन सफलाः भविष्यामः |  

- डॉ. बलदेवानन्द सागर
 
रचनाकार परिचय
डॉ. बलदेवानन्द सागर

पत्रिका में आपका योगदान . . .
आलेख/विमर्श (1)जयतु संस्कृतम् (3)