हस्ताक्षर रचना
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
अगस्त 2018
अंक -41

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
आलेख:
कृष्णस्य बाललीलाः
[ सरलया संस्कृत-गिरा वर्णिताः ]
 
 
भारते यदुवंशः प्रमुखेषु राजवंशेषु अन्यतमः आसीत् | अस्य वंशस्य अनुवर्तिनो यादवाः गोपालकत्वेन विख्याताः जाताः | ते सुख्याते सुरम्ये प्रदेशे गोकुले निवसन्ति स्म | यादवानां प्रमुखः नन्द-गोपः तस्य पत्नी यशोदा च, आनन्द-सन्दोहं कृष्णं दत्तक-पुत्रत्वेन स्वीकृत्य तं गोकुलम् आनीतवन्तौ | गोकुलस्य  अनेन नूतनेन संयोगेन यादवानां प्रसन्नता द्विगुणिता जाता |
कृष्णः गोकुल-वासिनां जीवनेषु अतुल्यं परिवर्तनम् अकरोत् | प्रेम्णा स्नेहेन च गोपाल-इति नाम्ना ख्यातः कृष्णः अतितरां चञ्चलः सर्वैः साकं लीलया व्यवहरति स्म | यद्यपि तस्य चञ्चल-बाल-लीलाभिः नैकवारं प्रतोदिताः सन्तोऽपि ते सर्वे गोपालाय स्निह्यन्ति स्म |
 
अनुमिनोतु, गोपालाय अधिकतमं किं रोचते स्म ? भवतु, दुग्धं नवनीतं च | प्रायेण प्रतिदिनमेव, यदा वत्सः निज-मातुः दुग्धं पातुम् उपक्रमते स्म , तद्-दृश्यं रमणीयं भवति स्म |
दुग्ध-पानानन्तरं कृष्णः गोवृन्दस्य पश्च-भागे निलीयते स्म | यदा यादव-स्त्रियः गो-दुग्धाहरणार्थम् आयान्ति स्म, कृष्णः गोः पुच्छं सहसा आकर्षयति स्म |
भवता किं कदाचित् एवं श्रुतं यत् कश्चन गोः पुच्छम् आकर्षयति चेत् तदा किं गौः स्थिरा अभविष्यत् ? नैव... एषा स्यात् कूर्देत् ... दुग्ध-पात्रं च, आस्फा लयेत्...!  एतत् सर्वं दृष्ट्वा कृष्णः प्रमुदितः सन् मुक्त-मनसा हसति दूरे च पलायते  स्म |
 
एकदा कृष्णः अतितरां चाञ्चल्य-पूर्णां लीलाम् अकरोत् | सः निजगृहस्य दुग्ध-भण्डारण-कक्षं गतवान्, यत्र दुग्धं मृत्तिका-पात्रे बालैः अप्राप्ये उन्नते स्थाने आधीयते स्म | किं जानाति भवान् कृष्णेन किम् आचरितम् ? सः पार्श्व-स्थात् कक्षात् चूर्णिका-प्रस्तरमेकम् लोठयित्वा तत्रानीय तस्योपरि च स्थितवान् |
अहो काठिन्यम्...! साम्प्रतमपि सः दुग्ध-पात्रं स्प्रष्टुं नैव अपारयत् | सः कानिचित् काष्ठानि प्रकीर्ण-फलकानि च समेत्य मिथः संयोज्य प्रस्तर-खण्डोपरि स्थापितवान् | तदुपरि महता प्रयासेन पादाङ्गुलिभिः आधृतः सन् दुग्ध-पात्रं बलात् स्प्रष्टुम् अपारयत् |
सहसा काष्ठानि प्रकीर्ण-फलकानि च अवपतितुम् आरभन्त | कृष्णः पात्र-रज्जुं धृत्वा “ अम्ब ! अम्ब !! कृपया आगच्छतु ... !!!   साहाय्यं करोतु... अम्ब...!” इति सोत्कण्ठं मातरम् आकारयत् |
 
तस्मिन् स्थले सर्व-प्रथमं कृष्णस्य भ्राता, बलरामः प्राप्तः, नभसि दोलायमानं कृष्णं दृष्ट्वा बलरामः सानन्दं मातरम् आकारयत् , “मात ! सपदि आगच्छ ! कृष्णः नभसि दोलायते ....  हा... हा... हा...!”
एतत्-संक्षोभं श्रुत्वा यशोदा, राधया तत्-सखीभिः च साकं धावन्ती तत्र आगता | राधा कृष्णस्य सखी आसीत् | कृष्णं दृष्ट्वा यशोदा साश्चर्यं अवदत् –“उद्धत ! बाल ! अहं दुःखितास्मि त्वत्तः... !”
कृष्णः यदा अधः अपश्यत् , सः राधां तस्याः अन्यसखीः च अपश्यत्, तदा सः समधिकेन तार-स्वरेण अवदत् – “अम्ब ! कृपया ... अम्ब !! कृपया ... साहाय्यं करोतु...अम्ब...! मां नीचैः अवतारयतु ...!!”
इदं श्रुत्वा कृष्णे कृतदया यशोदा तम् अवातारयत् | परञ्च, कृष्णः साम्प्रतमपि हताशः आसीत् , अतः यशोदा किम् अकरोत् ? अस्तु ... किञ्चित्  नवनीत-पिण्डं दत्वा तं प्रसादितवती |
 
एकदा , कृष्णस्य अन्यतमः सखा बलरामम्  उपगम्य अवदत्, “राम ! पश्यतु , कृष्णः मृत्तिकां खादति !” अयं कृष्णस्य ताडनं वाञ्छति स्म | निश्चयेन, मृत्तिकां खादन्तं कृष्णं यदि यशोदा पश्यति चेत् नूनं सा तं ताडयेत् ! इदमेव असौ सखा ईच्छति स्म |
बलरामः विनैव काल-यापनम् , धावन् एव यशोदाम् उपगम्य तां वार्ताम् इमाम् अश्रावयत् | रुष्टा यशोदा बलरामेण साकं कृष्णम् अन्वेष्टुं निर्गता | तैः दूरं नैव गमनीयम् आसीत् | सः तत्रैव आसीत् ! तम् उपगम्य यशोदा अपृच्छत् , कृष्ण ! कथय मां, किं त्वया मृत् भक्षिता ?” नैव मात...! नैव भक्षिता |” कृष्णः अवदत् |
यद्यपि यशोदा तं पुनः पुनः पृष्टवती, कृष्णः तुल्यमेव उत्तरं प्रादात् | परञ्च, यशोदा तस्मिन् विश्वासं नैव कृतवती ! कृष्णस्य हस्तौ दृढं तस्य पृष्ठभागे बद्ध्वा अपृच्छत् , “कृष्ण ! मुधा मा वद ! यदि त्वम् अलीकं वदिष्यति, ताडयिष्यामि| मुखम् उद्घाटय | तव मुखान्तं निरीक्षे |” कृष्णः सस्मितं निज-मुखम् उदघाटयत् | यशोदा अतितराम् आघाताहता जाता | मुखाभ्यन्तरं तया यद् अवलोकितम्, सा नासीत् मृत्तिका, परञ्च वसुधा, सूर्यः, चन्द्रमा, नक्षत्राणि..., किम्बहुना, समग्रं जगत् |
 
इदं सर्वं दृष्ट्वा किञ्चित् स्थिरताम् अवाप्तुकामा यशोदा कृष्णस्य मुखे गोकुलम् अवालोकयत् | अपि च, कृष्णस्य अनावृत-मुखस्य सम्मुखं स्थिताम् आत्मानमपि विलोकितवती | परम-दुःखिता यशोदा कृष्णं सोत्कण्ठम् आश्लिष्य प्रार्थितवती. “ कृष्ण ! कृपया निजमुखं पिधातु ... अनावृतम् इदं स्वीयं मुखं पिधातु कृपया... ! सस्मैरं कृष्णः स्वकं मुखं पिहितवान् |
 
एकदा यदा यशोदा दधि-मन्थनं करोति स्म, तदा कृष्णः कक्षाभ्यन्तरम् आगतः | “प्रिय-वत्स ! किं नवनीतं वाञ्छसि ...?” यशोदा अपृच्छत् | कृष्णेन मूर्धावधूननं कृत्वा न्यक्कृतम्| कृष्णः स्व-मातुः दुग्धं पातुम् इच्छति स्म | ततः परम्, यशोदा तं दुग्धं पाययितुम् आरभत | किञ्चित् कालानन्तरमेव यशोदा ज्ञातवती यत् चुल्लिकोपरि प्रक्वथनार्थं स्थापितं दुग्धं पात्राद् बहिः निस्सरति | सा सहसा उत्थाय कृष्णं दूरे अपसारितवती | भवान् कल्पयितुं शक्नोति यत् कृष्णः कियान् रुष्टः सञ्जातः ? क्रोधाविष्टः सः तत्रस्थं सर्वमपि नवनीतं रंहसा खादितवान् | इतोऽपि अधिकतर-रुष्टः कृष्णः पार्श्वस्थं क्षीर-पात्रं विकीर्य मार्जारं क्षीर-पानार्थम् अनुज्ञातवान् | ततः परमसौ गृहात् तूर्णं निःसृतः |
 
परावर्तितवती यशोदा अवालोकयत् यत् विकीर्णं दुग्धं मार्जारः अवलिहति स्म, नवनीतं किञ्चिदपि अवशिष्टं नासीत् | यशोदा वस्तुतः क्रुद्धा अजायत, “गोपालेन अतितरां तोदिताSस्मि, नूनमसौ सम्यक्तया ताडनीयोSस्ति | ततः परमेव सः सुशिष्टो भविता”- सा विचारितवती | यशोदा गृहात् बहिः निर्गता | पूर्वतोऽपि भयङ्करं दृश्यम् अपश्यत् | सा अपश्यत् यत् कृष्णः अवशिष्टं नवनीतं कपिभ्यः खादयति स्म | यशोदा क्रोधाग्निना ज्वलिता |  यशोदा रज्जुना कृष्णं बद्ध्वा रज्जोः अपरान्तं उलूखलेन सार्धम् अबद्ध्नात् ! “ उत्पातकारिन् बाल ! अधुना त्वं किं कर्तुं प्रभवसि – इति ज्ञास्यामि ! किञ्चित् कालार्थं अत्रैव तिष्ठ !!”
प्रमुदितः बलरामः तन्मित्राणि च तत्र आगतानि | ते कृष्णं उपाहसन् ततः परं क्रीडितुं निर्गताः | वराकः कृष्णः ! सः अतितराम् एकाकी अवर्तत !!
 
किञ्चित् कालानन्तरं कृष्णः सत्यं हि  अतिरुचिम् अभजत | किं भवान् जानाति यत् तेन किं कृतम् ? सः पश्चवर्तिनम् उलूखलम् आकर्षयन् चलितुम् आरभत| ततः प्रचलन् कृष्णः पार्श्वस्थं वृक्ष-द्वयम् अपश्यत् | किं भवान् इदं ज्ञातुं नितरां उत्सुकः नास्ति यत् ततः परं कृष्णेन किम् आचरितम् ? सः केवलं वृक्ष-द्वयस्य मध्यात् प्राचलत् ! अपिच, उलूखलः तयोः मध्ये अवरुद्धः | कृष्णः मन्थरतया उलूखलम् आकर्षयत् |  आह्... ! ओह् ...!! उलूखलः साम्प्रतमपि अवरुद्धः एव आसीत् | कृष्णः स्व-पूर्ण-शक्त्या उलूखलम् आकर्षयत् | अपि च,  ततः परं किं घटितम् ? वृक्षद्वयमपि उन्मूलितं जातम् ! अनुवर्तिनि क्षणे उन्मूलित-वृक्ष-द्वयात् देवौ समुत्पन्नौ | एतौ देवौ वृक्ष-योनौ समुत्पन्नार्थं शापितौ आस्ताम् | कृष्णः स्व-लीलया एव तौ शापमुक्तौ व्यदधात् | कृष्णाय निज-कृतज्ञतां समर्प्य तौ स्वर्गं परावर्तितौ | वृक्षयोः उन्मूलनस्य महारावं श्रुत्वा गोकुलस्य प्रत्येकमपि निवासी धावन्निव तत्रागतः | कृष्णः प्रहसन्निव तत्र स्थितः आसीत् ! नन्दगोपः कृष्णम् उन्मोचितवान् |
 
किम् अद्भुतं घटितम् ? द्वौ विशालौ वृक्षौ अप्रतिहतौ, सहसा उन्मूलितौ जातौ | “इदन्तु कस्यचित् अभिशापस्य उत्पात-जातम् |” अनेके यादवाः विचारितवन्तः| “अस्मात् आत्मानं रक्षितुम्, अस्माभिः किं करणीयम् ? स्थानमेतत् परित्यजेम ?” एवं हि, यादवाः गोकुलं परित्यज्य वृन्दावनं प्रति याताः |   
दिनानि व्यतीतानि | कृष्णः बलरामः च पशु-पालन-योग्यौ सञ्जातौ | तौ अपि अन्यैः गोपालकैः सह गोचारणार्थं प्रयातुम् आरभताम् | तयोः अम्बा मध्याह्न-भोजनार्थं प्रतिदिनं ताभ्यां दधि-मिश्रितम् ओदनं ददाति स्म | ते गोपालाः आदिनं पशुभिः सार्धं परितः परिभ्रमन्ति स्म |
यदा गावः गोचारण-भूमौ चरन्ति स्म, कृष्णः तस्य सखायः च क्रीडन्ति स्म, उत वा, वृक्षाणां छायासु विश्रमन्ते स्म | कृष्णः तदा स्वीयं वेणुं वादयति स्म | कृष्णस्य वेणु-स्वरं श्रुत्वा प्रत्येकमपि प्राणी परिवेश-जातं विस्मरन्ति स्म |  एतादृशं मधुरं सङ्गीतम् ! गावः ग्रास-चरणं विस्मृत्य सङ्गीत-माधुर्ये निमग्नाः अभूवन् | पक्षिणः सङ्गीतमेतत् श्रोतुम् उद्डीय कृष्णं निकषा आयान्ति स्म | मयूराः हरिणः च आनन्द-सन्दोह-भरिताः तं परितः नृत्यन्ति स्म |
 
एकदा, किञ्चित् अतितरां अद्भुतं घटितम् | कृष्णस्य केचन सखायः गावः च विलुप्ताः जाताः ! एते कृष्णस्य वेणुगानं श्रोतुं तस्य समीपम् उपयान्ति स्म | ते सर्वेऽपि कुत्र प्रयाताः ? निज-वंशीं वादयन् कृष्णः विलुप्तानि मित्राणि गाः च अन्वेष्टुम् आरभत |
सुदीर्घ-कालं यावत् अन्वेषणानन्तरमपि सः न कमपि प्राप्तवान् | तदा कृष्णः अन्वभवत् यत् ब्रह्मदेवः प्रवञ्चनया एवं क्रीडति ! ब्रह्मा, येन समग्रमपि ब्रह्माण्डं सृष्टम् | सः कृष्णं परीक्षितुं गोपालान् गाः च गोपायितवान् | किं भवान् जानाति ? तदा कृष्णेन किम् आचरितम् ?
 
निज-विलुप्तानां मित्राणां गवां च स्थाने सः तेषां तासां च प्रतिकृतीः विरचितवान् | सायङ्काले कृष्णः प्रतिदिनमिव निज-मित्रैः गोभिः च साकं गृहं प्रतिनिवृत्तः | ब्रह्मदेवः असमञ्जसताम् अन्वभवत् | कृष्णं परीक्षितुं गोपायितानां गवां गोपालानां च विषये अधुना मया की करणीयम् ?”
दिनानि व्यतीतानि | अन्ततः, ब्रह्मदेवः कृष्णस्य समक्षम् उपस्थाय न्यवेदयत् , “ कृपया मां क्षम्यताम् | केवलं भवन्तं परीक्षितुं वाञ्छामि स्म | अत एव मया गोपालाः गावः च चोरिताः गोपायिताः च | एवम् इदम् आचरितम् ! अहं जानामि – भवान् साक्षात् पुरुषोत्तमस्य नारायण-विष्णोः अवतारः |”
सस्मितः कृष्णः ब्रह्मदेवं न्यगादीत् – “भगवन् ! भवता मम मित्राणि पशवः च गोपायिताः, परं मया तु सायम् एते साकमेव गृहं नेतव्याः आसन् | अत एव, मया एते पुनः सृष्टाः सन्ति |”
एतत् श्रुत्वा, ब्रह्मदेवः अभिघोषितवान्– “अहं स्वीयं पराजयं स्वीकरोमि | गोपायिताः सर्वाः गावः गोपालाश्च मया प्रत्यानीताः | परञ्च विशङ्के यत् भवता प्रकल्पितानां गवां गोपालानां च किं भविष्यति इति ?”     
 
 कृष्णः सस्मितं अङ्गुलिं निर्दिशन् न्यगादीत् –“पश्यतु !” ततः परं ब्रह्मदेवेन किं दृष्टम् ? कृष्णेन प्रकल्पिताः सर्वाः अपि गावः यादवाश्च स्वयं भगवतो विष्णोः स्वरूपतां परिणताः | प्रत्येकमपि विष्णोः नाभितः कमलं प्रादुरभूत् | प्रत्येकमपि कमले ब्रह्मदेवस्य प्रतिमूर्तिः उपविष्टा आसीत् |  आश्चर्यचकितः ब्रह्मदेवः एतत् सर्वं संवीक्षते स्म | ततः परं सः बद्ध-कराञ्जलिः कृष्णाय प्रणिपातं व्यदधात् | अनुवर्तिनि क्षणे, विष्णोः सर्वाण्यपि प्रतिरूपाणि एकस्मिन् समन्वितानि सन्ति कृष्णे विलीनानि | कृष्णाय आदराञ्जलीन् अर्पयित्वा ब्रह्मदेवः प्रतिनिवर्तितः | भगवतः विष्णोः अवतारः, भगवान् कृष्णः स्मितं व्यदधात् | परःसहस्रं सूर्य-प्रभाभिः प्रकाशितः अवर्तत |
 
कृष्णः न कमपि किञ्चिदपि अवदत् यत् किं किं घटितम् इति | वृन्दावने सर्वं यथावत् सञ्जातम्, तथा च, कृष्णः सर्वैः निज-मित्रैः सह सुखम् आनन्दम् च अनुभवन् व्यराजत |
 
                              
               
 
 
 

- डॉ. बलदेवानन्द सागर
 
रचनाकार परिचय
डॉ. बलदेवानन्द सागर

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (2)