प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
अप्रैल 2018
अंक -39

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
लघुक्षणिका- नाटिका
 
दिल्ली संस्कृत अकादमी द्वारा प्रायोजित अखिल भारतीय मौलिक संस्कृत लघु कथा एवं लघु नाटक लेखन प्रतियोगिता वर्ष 2016-2017 में लघुक्षणिका नाटक को दिल्ली संस्कृत अकादमी से पुरस्कार 30.03.2017 को प्राप्त हुआ है।
 
 प्रथम दृश्यः-
 
{वार्तालापः}
 
अयं दृश्यः परिवारस्य मध्ये वार्तायाः वर्तते। सामाजिक जीवने परिदृश्यते यत् वर्तमाने मानवाः एकांकी भवन्ति।  ते परस्पर स्नेहपूर्णवार्तां न कुर्वन्ति। स्व-स्वकार्ये संलग्ना भवन्ति। अतः एतस्मिन् प्रसंगे  परिवारस्यमध्येवार्तायाः महत्तास्ति।
 
रामः       - नमोनमः मोहनः।
 
मोहनः   - नमस्कारः।
 
रामः       - भवान् किदृशः अस्ति।
 
मोहनः - स्वस्थः अस्मि।
 
मोहनः - आगच्छ आगच्छ भातृः।
 
रामः     - उचितमस्ति।
 
मोहनः  - अयं मम पितुः अस्ति। अस्य नाम दीनदयालः अस्ति।
 
रामः     - उचितमस्ति।
 
मोहनः  - अयं मम पितुः अस्ति। अस्य नाम दीनदयालः अस्ति।
 
रामः     - प्रणामं करोमि।
 
दीनदयालः - कुशलम् अस्तु।
 
मोहनः   - इयं मम जननी अस्ति। मम जननी सरकारी सेवायां अध्यापिकापदे कार्यंं करोति।
 
रामः       - प्रणामं करोमि। उचितमस्ति।
 
मोहनः   - इयं मम भगिनी अस्ति। अस्याः नाम राधिका अस्ति।
 
रामः       - नमस्कारम्।
 
रामः       - सा का अस्ति ?
 
मोहनः   - सा मम भार्या अस्ति।
 
रामः       - भातृजायां प्रणामं करोमि।
 
उमा        - नमस्कारम्।
 
मोहनः   - उमा गच्छ, चाय पानम् आनयतु।
 
उमा        - गच्छामि। जलं चायं च गृहीत्वा उमा आगच्छति।
 
मोहनः   - भवान् जलं ग्रहणं करोतु।
 
रामः       - उचितमस्ति।
 
मोहनः   - चायं पिबतु भवान्।
 
रामः       - सम्यक् अस्ति।
 
रामः       - अहम मम गृहं गन्तुमिच्छामि। भवान् आज्ञां ददतु। आम्। भातृजाययाः सह भवान् मम गृहम् आगच्छतु।
 
मोहनः   - अवश्यमेव आगमिष्यामि।
 
रामः       - धन्यवादः।
 
मोहनः   - पुनः मिलापः।
 
मोहनः   - उमा, अहम् अतीव बुभूक्षा अस्मि।
 
उमा        - अहं शीघ्रं भवत्यै भोजनम् आनयामि।
 
मोहनः   - गच्छ उमा।
 
(उमा गच्छति शीघ्रं भोजनं गृहीत्वा आगच्छति)
 
उमा        - भवान् हस्तपादौ प्रक्षालनं करोतु। तत्पश्चात् भोजनं ग्रहणोतु।
 
मोहनः   - गच्छामि।
 
मोहनः   - भोजनं करोति।
 
मोहनः   - उमा, भोजनं स्वादिष्टम् अस्ति। भवत्या पाकशालायां निपुणा अस्ति।
 
उमा        - धन्यवादः।
 
मोहनः   - अतीव प्रसन्नः अस्मि। भोजनं बहु उत्तमम् अस्ति। अहं विश्रामं करिष्यामि।
 
।। उमा गृहकार्ये संलग्नं भवति। मोहनः विश्रामं करोति। सर्वे परस्परं प्रसन्नं भवन्ति।
 
 
 
द्वितीय दृश्यः-
 
{पर्यावरणम्}
 
साँयकालस्य समयास्ति। उमा मोहनेन सह उद्याने भ्रमणं करोति। तदा पर्यावरणप्रसंगे चर्चा भवति। तस्य वर्णनमस्मिन् दृश्ये वर्णितमस्ति।
 
मोहनः   - उमा, प्रकृतिः रमणीयास्ति।
 
उमा        - आम्, प्रियः।
 
मोहनः   - उद्याने अनेका वृक्षाः लताश्च सन्ति।
 
उमा        - मनोहरः दृश्यः अस्ति।
 
मोहनः   - अत्र खगाः भ्रमणं कुर्वन्ति। पुष्पाणि फलानि च अत्र उद्यानं परितः सन्ति।
 
उमा        - प्रियः इदम् उद्यानम् अस्ति। एतस्मात् कारणात् अत्र दृश्यः रमणीयः अस्ति।
 
मोहनः  - आम्, उमा। परं भवत्यां किं कथयितुं वा´्छति। उद्यानम् अस्ति। अतः प्रकृतिः शोभायुक्तः अस्ति।
 
उमा        - प्रियः आम्। प्रकृतिः वास्तविकस्वरूपे रमणीया नास्ति। पर्यावरणक्षेत्रस्य विषये समस्या तीव्रतरा कष्टतरा अस्ति।
 
मोहनः  - जानामि उमा, जानामि। परं किं भविष्यति। मानवः अद्य स्वार्थयुक्तः अभवत्। सः सम्यक्रूपेण जानति यत् वनस्पतयः अस्माकं                   प्राणः सन्ति। परन्तु सः निकृष्टतरः अस्ति।
 
उमा        - प्रियः चिन्तायुक्तः विषयेऽस्ति, परं अस्य समाधानम् अवश्यमेव अस्ति।
 
मोहनः - किं समाधानम् उमा।
 
उमा   -  अस्मिन् क्षेत्रे समाजस्यमध्ये चेतना जाग्रत् कुर्यात्। विद्यालयेऽपि, सरकारी उत्सवोऽपि सामाजिकरूपेण प्रयासः कुर्यात्।
 
मोहनः   - अहम् अद्यैव पर्यावरणक्षेत्रस्य विषये समाजे चेतना जाग्रतं करिष्यामि।
 
उमा        - अहमपि करिष्यामि।
 
मोहनः   - उमा, एकः विचारः अस्ति।
 
उमाः      - किं विचारः प्रियः।
 
मोहनः   - मार्चमासस्य पञ्च दिनाङ्केऽस्माकं विवाहस्य प्रथम वर्षगाँठः अस्ति।
 
उमा        - आम्, तदा किं।
 
मोहनः   - अस्मिन् अवसरे आवाम् आम्र पौधः रोपयिष्यावः। यः अस्माकं प्रेम्णः सूचकं भविष्यति।
 
उमा        - ओह ! आश्चर्यम् अस्ति। भवतः विचारः प्रेरणास्पदः अस्ति।
 
 तौ (उमा-मोहनः च) हसतः।
 
उमा पुनः कथयति - विवाहोत्सवे, जन्मोत्सवेऽन्यात्सवेषु अपि इदं कार्यं करणीयः।
 
मोहनः   - आम्, उमा। उमा गृहं प्रति चलतु।
 
उमा मोहनेन सह गृहमागच्छति। तदैव मोहनेन सह उमा अस्मिन् कार्ये प्रवृत्तः अस्ति। फलस्वरूप परिवारस्यान्यजनाः, ग्रामस्य जनाः तयोः सहायतां कुर्वन्ति। ग्रामे पर्यावरणस्यविषये चेतना जाग्रतं भवति।
 
 
तृतीय दृश्यः-
 
{स्वच्छ भारतः स्वस्थ भारतः}
 
अस्मिन् प्रसंगे देवालयस्य घटनायाः वर्णनमस्ति। देवालयस्यपरिसरः स्वच्छः नास्ति। इतस्ततः पङ्क-पत्रं-पुष्पं-प्लास्टिक बैगः इत्यादयः सन्ति। देवालये शिवस्य मूर्तिः अस्ति। शिवं पूजयितुं महिलाः आगच्छन्ति। तासु - कविता- किरण- उमादि सन्ति।
 
 
किरण    - नमस्कारं भगिनी।
 
उमा        - नमो नमः।
 
कविता   - नमस्कारं करोमि।
 
किरण  - पश्यतु, भगिनी। देवालयस्य परिसरः स्वच्छः नास्ति। जनाः अत्र आगच्छन्ति परं एतस्मिन् विषये कोऽपि न विचारं कुर्वन्ति, सर्वे जनाः नेत्रं निर्मिल्य इतस्ततः भ्रमणं कुर्वन्ति। अद्यं भगिनी, स्वच्छतायाः विषये विचारं करिष्यामः, भारत-सर्वकारः अपि एतस्मिन् विषये जनतायाः मध्ये चेतना जाग्रतं कत्र्तुं तत्परः अस्ति।
 
उमा  - आम् भगिनी। अस्माकम् प्रधानमन्त्री श्रीमन्तः नरेन्द्रमोदी महाभागः अपि अनेकावसरे कथयति भारतः अस्माकं माता अस्ति। अस्माकं दायित्वमस्ति माता स्वच्छास्तु। अतः परस्पर मिलित्वास्य दायित्वस्य निर्वाहं भवेत्।
 
कविता - अस्माकं राष्ट्रपिता महात्मागाँधी महोदयापि स्वच्छतायाः विषये प्रेरणां ददाति। सः स्वकार्यं स्वयं करोति।
 
किरण  - आम् भगिनी। अद्य वयं मिलित्वा देवालयस्य सम्मार्जनस्य हेतोः कार्यं करिष्यामः।
 
सर्वाः तथैव कुर्वन्ति।
 
देवालस्य परिसरे स्थितः जनाः तां दृष्ट्वा परिसरस्य सम्मार्जितुं संलग्ना भवन्ति । किञ्चत् कालपश्चात् देवालयः स्वच्छः भवति। तत्पश्चात् सर्वे मिलित्वा प्रतिज्ञां कुर्वन्ति अद्यात् स्वच्छतायाः विषये कार्यं करिष्यन्ति यतस्मात् वयं स्वस्थः भविष्यामः। सार्थकः भविष्यति स्वच्छ भारतः स्वस्थ भारतः।
 

- डॉ. भूपेन्द्र कुमार राठौर
 
रचनाकार परिचय
डॉ. भूपेन्द्र कुमार राठौर

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (1)