प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
मार्च 2018
अंक -45

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
श्रावणस्तु वैशाखो जातः
(श्री महेन्द्र भीष्म विरचित एकांकी ‘‘सावन बैसाख हो गया’’ इत्यस्यानुवादः) - 2
 
पञ्चमं दृश्यम्
 
(मञ्चे ठाकुरभानुप्रतापसिंहः सपत्नीकः तिष्ठति।)
भा- राघवस्य मातः, किमिदं श्रृणोमि अहम्! अपि जानासि त्वम्..............सतारीग्रामस्य
ठाकुरलाखनसिंहस्य कुले महान् दोषः खलु राघवस्य मातः।
रुक्मी- किन्तु, वदतु भवान्! किमभवत्!
भा- वर्षेभ्यः पूर्वं लाखनसिेहस्य परिवारस्य एका बालिका केनापि सह गृहात् पलायिता
आसीत्।
रु- अरे!... तर्हि किम्!........का आसीत् सा!
भा- यया कन्यया सह राघवस्य विवाहो निश्चितः तस्या आवुकी भवतिस्म सा। इदानीं
राघवस्य विवाहः तत्र न भवितुमर्हति।
रु- अस्मिन् तस्याः निर्दोषकन्यायाः कः दोषः!
भा- दोषः कथं न! दोषस्तु भवेदेव। एतादृग्दुष्टपरिवारस्य कन्या अस्माकं कुले कदापि
आगन्तुं न शक्नोति।
(राघवः प्रविशति।)
रा- पिताश्री, किमहं श्रृणोमि!
भा- यत्श्रृणोसि तदेव कथयामि। यच्च कथयामि तदेव सत्यम्।
रा- किन्तु पिताश्री! अत्र.......मम अभिप्रायः.............मम भावना............
भा- किमिदं मम मम अहमहम् इति प्रलपसि! त्वं खलु मम कुलदीपकः। एकस्या एव न
अपितु पञ्चसप्ततिसुन्दरीणां बालानां पंक्तिः स्थास्यति तव कृते। तदपि श्रेष्ठकुलेभ्यः।
...सुन्दर्या कन्यया सह तव विवाहम् सोत्सवमानं कारयिष्यामि।
रा- किन्तु..........पिताश्री!......अहं ......चन्द्रकला..............अहं.................ताम्....... मातः.....मातः.........
पितृपादं प्रतिबोधयतु भवती!
भा- तूष्णीं भव कुमार! तव एतादृशः दुस्साहसः!.......ज्येष्ठैः सह एतादृशः प्रलापः क्रियते!......
मर्यादाः उल्लंघिताः त्वया!......अस्माकं कुले ज्येष्ठा एव निर्णयं कुर्वन्ति। .......तेषामेव
निर्णयः अतिशेते।...........मम आदेश एष!.......सतारीग्रामस्य ठक्कुराणां परिवारे तव
विवाहो कदापि न भविता! राघवस्य मातः! त्वं प्रतिबोधयैनम्।..........कुलस्य मर्यादाम्
अवेक्षताम्।..........ज्येष्ठानाम् आज्ञापालनस्य संस्कारः शिक्ष्यताम् अस्मै। (बहिर्गच्छति।)
रा- मातः!
रु- वत्स!
रा- (मातरमालिंग्य ) मातः! चन्द्रकला साध्वी बाला। तां विना जीवितुं मम कल्पनापि नास्ति।
तस्यां मम अनुरागः। सा निर्दुष्टा। आवां कस्यापि अपरस्य दोषार्थं कथं दण्डार्हौ। अहं
चन्द्रकलाम् आत्मीयां मन्ये। तां विना न जीवितुं शक्नोम्यहम्।
इति दृश्यम्
 
षष्ठम् दृश्यम्
 
(ठाकुरलाखनसिंहः कुपितः तिष्ठति। तस्य पुत्रः रवीन्द्रसिेहः वध्वौ च निकटे उपस्थिताः।)
ला- एते मगरौलवासिनः ठक्कुरा आत्मनः किं मन्यन्ते! एतादृक्साहसः!..........वाग्दानविच्छेदः
महार्घः स्यात्तेषाम्!
र- किमभवत् पिताश्री! मगरौलीयाः वाग्दानविच्छेदं कृतवन्तः!
ला- आम् वत्स, दुष्टाः कथयन्ति यदस्माकं कुले दोषः!........... तेषां कुलं पुनः दुग्धक्षालितम्!...
.......अस्माकं ज्ञातिजनेषु किं जातम् एतेन तेषां किं प्रयोजनं किल!.............अरे अस्माकं
परिवारे तु कोऽपि दोषो नास्ति!............अस्माकं बालिका तु निर्दुष्टा! अस्मत्
सम्बन्धविच्छेदं कृत्वा साधु न आचरितं ठाकुरभानुप्रतापेन!
र- पुत्रिकाणां खेला इति मन्यन्ते ननु! किमात्मनः मन्यन्ते ते! वयं स्वस्य प्रियायाः भगिन्याः
कृते इतोऽपि उच्चैः कुले विवाहं साधयिष्यामः।
ल- (क्रुध्यन्) तत्तु करिष्यामः एव। किन्तु मगरौलवासिनो अपि पाठयिष्यामः। आवृतानि
गर्तानि उत्खातयन्ति!........ नपुंसकाः!.............
र- आम् पिताश्री, रावतपुरस्य ठाकुर-अरिमर्दनसिंहस्य पुत्रः राजेश्वरप्रतापः न्यायाधीशः
जातः। तेन सह विवाहं कारयिष्यामः चन्द्रकलायाः।
(चन्द्रकला विद्यालयात्प्रत्यावर्तते। सुमनापि तया सह वर्तते। प्रसन्नवदने उभे
अन्तिमशब्दं श्रुत्वा अवाग्भवतः। चन्द्रकलया सह तस्याः भ्रातृजाये प्रकाशगोलकस्य
परिधौ आगच्छतः।)
च- भाभीमातः, अहं कुमारं स्वपतित्वेन स्वीकृतवती। अपरत्र कुत्रापि विवाहं न करिष्ये।
ज्ये-अरे वत्से! एवमेव कोऽपि पतिरूपेण स्वीक्रियते ननु!
च- भाभीमातः! अहं तेन सह एकवारं मिलितवती अपि।
ज्ये- किं वदसि! कदा! कुत्र! (चन्द्रकलायाः उदरे हस्तेन स्पृशति ज्येष्ठा भ्रातृजाया।)
च- गोविन्दभ्रात्रा सह सः मां मेलितुम् आगत आसीत्, पुष्पोद्याने। केवलमेकवारं स दृष्टो
मया। तस्मादेव क्षणात्स मदीयो जातः।.......... भवती ज्येष्ठभ्रातरं कथयतु.........क्वचिद्
अपरत्र मे विवाहं मा कारयतु।...............तं विना जीवितुं न शक्नोमि।.............आजन्म
कुमारी स्थास्यामि किन्तु अन्यत्र विवाहं न करिष्यामि।
ज्ये- कीदृक्प्रलापः क्रियते त्वया! तव भ्राताश्री तव पिताश्री च क्रोधिस्वाभावौ स्तः। किं न
जानासि त्वम्! ते कदा श्रोष्यन्ति अस्माकं वचनम्! किं च, अस्मानेव हिताहितं
प्रतिबोधयिष्यन्ति। करिष्यन्ति स्वाभिमतमेव। ......कथामात्रमेव अस्माकम्
उच्चकुलवधूत्वम्। किन्तु एतेषु प्रासादेषु अभ्यन्तरमेव अस्माकं स्वरः अभिभूयते, का कथा
पुनः बहिःप्रासादस्य!
कि- चन्द्रकले दीदि, ज्येष्ठा यथार्थं भणिति।.......पुरुषवादिमानसिकता मिथ्याप्रतिष्ठा .....दम्भः...
......अहंकारः.....! एतत्समक्षम् अस्माकं ध्वनिः विलीयते। अस्माकं नियतिः
स्वीकरणमात्रम्...........। अहो एतैः कल्पिता परम्परा.!.............शनैः-शनैः सर्वं सामान्यं
भविता।
च- (साक्रोशम्) किमपि किमपि लपते कनिष्ठाभ्रातृजाया। अहम् अन्तिमवारम् वदामि यद् अहं
कुमारस्य अस्मि। अस्मिन्जन्मनि तस्यैव भविष्ये।........भवन्तः यत्किमपि कर्तुं पारयन्ति।
रुदन्ती अन्तः गच्छति।
कि- दीदि!
(प्रकाशगोलकं रवीन्द्रस्य उपरि अवतिष्ठते। मञ्चस्य पर्यन्तात् वध्वोः प्रवेशः भवति।)
गो- (ससम्भ्रमम्) रवीन्द्र भ्रातः! दायजू सर्वकार!........ रवीन्द्रभ्रातः..........
र- अरे, गोविन्द!...........किं जातम्!
गो- अत्याहितम्।....रवीन्द्रभ्रातः!......अत्याहितम्!
र- अग्रे वदतु! का वार्ता! किमत्याहितं गोविन्द!........... कथं न वदसि!
गो- मगरौलस्य..........
र- किं घटितं मगरौले!................ वदत्वग्रे।...........
गो- कुमारराघवेन्द्रसिंहः गुलिकया आत्मघातं कृतवान् रवीन्द्रभ्रातः।.........
र- ततः!
गो- तस्य परिजनाः तं चिकित्सालयं नीतवन्तः। पश्यतु, किं नु भवेत्!
(किशोरी ज्येष्ठाया गले लगति।)
कि- हे मातः!.
ज्ये- हे विन्ध्यवासिनि!
र- किम्!
ला- ओह! (शिरोग्राहम् उपविशति।)
दृश्यसमाप्तिः
 
अन्तिमदृश्यम्
 
(मञ्चे चन्द्रकला दुःखदग्धा आगच्छति। दुःखदसंगीतं वाद्यते। चन्द्रकला मञ्जूषामुद्घाटयति।
वाग्दानोत्सवे प्राप्तां शाटीं आभूषणानि च निःसार्य सर्वं सम्भारं वक्षसा संस्पश्र्य वलयानि
पृथक्करोति।)
च- अधुना युष्माकं किं प्रयोजनम्! अथवा अस्ति एकं प्रयोजनम्! (इत्युक्त्वा लोष्टमानीय
वलयानि सञ्चूण्र्य जले घोलयित्वा पातुं प्रवर्तते। किशोरी तथा कुर्वन्तीं तां दृष्ट्वा
चीत्करोति। सा चन्द्रकलायाः हस्तं दृढं गृह्णाति। हस्ताहस्तिः प्रचलति। चन्द्रकला
किंचिन्मात्रमेव घोलं मुखे नेतुं शक्नोति  ।)
कि- रक्ष... अरे दीदि रक्ष!..... किं कृतं त्वया!......... अरे कोऽपि अस्ति! रक्ष, रक्ष! पश्य ...........
(ज्येष्ठा आगच्छति।)
ज्ये- किं जातं चन्द्रकले!
च- भाभीमातः! अहमिदानीं जीवितुं न इच्छामि। .......तेन विना किं जीवितेन!....... अतस्तस्यैव
पाश्र्वे गच्छामि।..........
ज्ये- अरे! किं करोषि! तिष्ठ। (ज्येष्ठा आश्वेव तस्याः मुखे अंगुलिं संपात्य वमनं
कारयति। ग्रीवापृष्ठतः च हस्तेन ताडनं करोति। रवीन्द्रः लाखनः गोविन्दः च तत्र
आगच्छन्ति।
ज्ये- (रवीन्द्रम् प्रति) अविलम्बेन कारयानं निःसारय। चिकित्सालयं नयैनाम्।
(रवीन्द्रः चन्द्रकलां क्रोडे निधाय बहिः धावति। धावतः तयोः आलापः श्रूयते।)
र- भगिनि चन्द्रकले!......
च- ज्येष्ठभ्रातः!......
र- किं कृतमेतत्भगिनि!.........अहं सूचितः स्याम!.......तव विवाहं तत्रैव अकारयिष्याम !.........
एकवारं स्वस्य अभिलाषः उक्तस्तु स्यात्!......कुमारेण सहैव ते विवाहः स्यात्।.
गोविन्द!....त्वया एव सूचनीयम् आसीत्......... वयं कथं किं वा जानीयाम। .......उभयोः
परस्परं तादृक्प्रेम आसीत्।............वत्से! स्वभ्रातृजाये सूचनीये स्याताम्!........कुतस्तु ज्ञातं
स्यात्.............अरे! कुमारः उत्थापितः स्यात्।............तस्य अपहरणं अकरिष्यम्।........ त्वया
सह परिणयम् अकरिष्याम!.........चेदपि युद्धं स्यात् मगरौलस्य ठक्कुरैः सह।.....
(ध्वनिः मन्दतरा भवति)
(नेपथ्ये श्रूयते- ईश्वरस्य कृपया चिकित्सकैः रक्षितः राघवः।)
(आकाशभाषितम्) दिष्ट्या वर्द्धते कुमारः राघवप्रतापसिंहः। चिकित्सकैः अतीव कौशलेन
गुलिका निःसारिता।)
सर्वे- शुभसंवाद एष। अस्माकं चन्द्रकला अपि जीव्यात्।
(सर्वे प्रार्थनां कुर्वन्ति)
रक्ष प्रभो, रक्ष प्रभो, हे सर्वकाम महेश्वर!
कल्याणमास्तां सर्वथा त्वं शंकरो मंगलकरः।।
(नेपथ्ये- आश्चर्यम् आश्चर्यम्। ईश्वरस्य महिमा विजयते।........रक्षिता खलु लाखनसिंहस्य
प्रिया पुत्री चन्द्रकला)
( मंचे उभयतः भानुप्रतापसिंहः लाखनसिंहश्च आगच्छतः।)
भा- क्षम्यतां लाखनसिंहमहोदय। मे दृष्टिः उन्मीलिता।
(उभौ आलिंगतः)
(नेपथ्ये)
भरतवाक्यम्
विस्मृत्य विगतान् दोषान् स्वस्य चैव परस्य च।
वर्तन्तां भूतले सर्वे सौहार्देन परस्परम्।।
पटाक्षेपः
 
अक्षरसंकेतः-
सूत्रधारः- सू
नटी- न
राघवः- रा
गोविन्दः- गो
चन्द्रकला- च
सुमन- सु
भाभी- ज्ये
भाभी2- कि
भानुप्रतापः- भा
रुक्मी- रु
लाखनः- ला
रवीन्द्रः- र
 

- डाॅ. नवलता
 
रचनाकार परिचय
डाॅ. नवलता

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (3)