हस्ताक्षर रचना
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
मार्च 2018
अंक -41

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
श्रावणस्तु वैशाखो जातः
(श्री महेन्द्र भीष्म विरचित एकांकी ‘‘सावन बैसाख हो गया’’ इत्यस्यानुवादः) - 1
 
 
- नान्दी-
शीर्षे चन्द्रकला ललाटपटलेऽग्निर्यस्य राराजते।
ग्ंागा केशकलापगा त्रिपथगा निःस्यन्दमाना भुवि।
कण्ठे कालविषं गले च गरलं भस्मांगरागं तनौ
एकत्रैव दधाति यः स च शिवः कुर्यात्सदा मंगलम्।।
(नान्द्यन्ते प्रविशति सूत्रधारः)
 
सूत्रधारः- आर्ये! क्वासि! एहि, एहि।
नटी-    इयमस्मि आर्य! का वार्ता खलु!
सूत्रधारः- अपि स्मर्यते त्वया विविधहिन्दीरूपकाणां लेखकः संस्कृतानुरागी श्री महेन्द्रभीष्मवर्यः!
नटी-    कथं न! मया एतदपि स्मर्यते यद् अद्य तेन हिन्दीभाषया लिखितस्य बहुश्रुतस्य
‘‘बरसता सावन वैशाख हो गया’’ इति शीर्षकात्मकस्य प्रहसनस्य संस्कृतभाषयाः
प्रस्तुतिः अस्माभिः साध्या।
सूत्रधारः- आर्ये चतुरासि त्वम्। भारतीयसंस्कृतौ संस्कृतस्य प्रभावः साक्षात् दृश्यते अस्मिन्
प्रयोगे।
नटी-    रूपकस्य कथावस्तु अपि सामयिकी।..........................
सूत्रधारः- (मध्ये क्षिपन्निव) हाॅं! हाॅं जानामि तव ज्ञानभाण्डागारम्। कालो गच्छति। त्वरस्व।
नटी-    मया पूर्वमेव सर्वं सिद्धम्। सामाजिका अपि सोत्सुकाः सन्ति। तर्हि.............
सूत्रधारः- ...........लघु चलावः। राघवः गोवन्दश्च म´्चं प्रविशमाणौ एव।
(इति निष्क्रान्तौ )
 
प्रथमं दृश्यम्
 
(म´्चे द्वयोः विद्यार्थिनोः प्रवेशः। परस्परं घट्टनेन उभयोः पुस्तकानि पतन्ति।
राघवः- अहो! मित्र! क्षम्यताम्।
गोविन्दः- मित्र, अहमपि क्षम्यः।
(उभौ पुस्तकानि उत्थापयन्तौ स्मयमानौ भवतः।)
राघवः- (पुस्तकस्य नामपर्णिकायां नाम पठन्) अये भोः, गोविन्द भ्राता! किं त्वमपि
स्नातक-कलासंवर्गे असि!
गोविन्दः- (नामपर्णिकां पठति) आम् राघवेन्द्र भ्रातः।
चल, अद्य यावदावां मित्रे जातौ।
गो- सहपाठिनौ अपि! राघवेन्द्र भ्रातः, त्वया इण्टरपरीक्षा कुतः उत्तीर्णा!
रा- चरखारीतः। त्वं मां राघव इति आह्वयितुं शक्नोषि। अथ त्वया कुतः इण्टरपरीक्षा
उत्तीर्णा।
गो- नहि, सतारी मम गृहनिवासस्थलम्, कुलपहाड़तः प´्चकिलोमीटराणि पश्चिमेन मम
ग्रामः। अथ त्वं राघव...!
रा- मगरौलस्य..........ठाकुरभानुप्रतापसिंहस्य पुत्रः अहम्।
गो- जयतु महाराजामहाविद्यालयः येन आवां मित्रीकृतौ।
रा- अथ सहपाठिनौ अपि......उभौ अट्टहासं कृरुतः। भ्रातः गोविन्द, श्रृणु!
गो- श्रावय।
रा- सतारी......। तदेव बौरा सतारी खलु!
गो- आम्, तदेव। उभौ ग्रामौ अतिसमीपस्थौ। अधुना तु प्रायेण मिलितौ इव, किन्तु
ग्रामप´्चायतौ पृथक्् स्तः। अहं सतारीनिवासी। कथं!  किं जातम्!
रा- त्वं बौराग्रामस्य ठाकुरलाखनसिंहं जानासि वा!
गो- आम्। कथं न! सम्यग्जानामि तम्। स तु वर्षेभ्यः बौरायाः ग्रामप्रधानः अस्ति। क्षेत्रस्य
प्रतिष्ठितः व्यक्तिः अस्ति। किन्तु,....... त्वं कथं पृच्छसि!
रा- (लज्जां नाटयन्) तस्य पुत्री चन्द्रकला....।
गो- हाॅं.......राजकुमारी चन्द्रकला! किमभवत् भ्रातः! चन्द्रकलायाः ज्येष्ठभ्राता कुमारः
रवीन्द्रसिंहः मम ज्येष्ठभ्रातुः सहपाठी भवतिस्म.......अस्मिन्नेव महाराजामहाविद्यालये......।
भ्रातृश्री तु सेनायां नियुक्तः कुमाररवीन्द्रसिंहश्च स्वस्य कृषिकार्यं पश्यन्नस्ति।
रा- एवं खलु!
गो- एते तव सम्बन्धिनः वा!
रा- सम्प्रति तु न, किन्तु शीघ्रमेव भवितारः।
गो- ओह! तर्हि किं चन्द्रकला!...........हुम्।
(राघवः शिरश्चालयन्स्मयते।)
 
गो- अरे मित्र, भाग्यशाली असि त्वम्।
रा- कथम्!
गो- यथा नाम्नि तथा एवास्ति अस्माकं चन्द्रकला, अपूर्वसुन्दरी...........अप्सरा इव प्रतीयते।
अतिशयेन संस्कारयुक्ता गुणागारश्च। अहं तु तां बाल्यकालाद् दृष्टवानस्मि।
रा- सत्यं वा!
गो- शतप्रतिशतं सत्यम्। चल मित्र, तत्र घासभूमौ उपविशावः। (उभौ घासभूमौ उपविशतः।
राघवः चित्रलिखित इव आस्ते।)
गो- राघवस्य मुखोपरि हस्तं चालयति, सः तथैवास्ते।
गोविन्दः- (स्वगतम्) दृष्टं ननु। क्व विस्मृत इव मित्र! अरे, कस्मिंल्लोके विचरसि
कुमारराघवेन्द्रप्रतापसिंह!
रा- ओह! क्षम्यतां गोविन्दभ्रातः! अहं...अहम्......
गो- अरे अहम्. अहम् इति किमर्थम्! किं विचार्यमाण आसीः राघवभ्रातः!
रा- (गोविन्दस्य हस्तौ गृहीत्वा तिष्ठति।) मित्र....मित्र......!
गो- हाॅं......हाॅ......कथय।...........अग्रे अपि किंचित् वदिष्यसि कुमारमहोदय!
रा- गोविन्द भ्रातः.....गोविन्द भ्रातः.......मित्र! तथा किमपि साधय यथा अहं
स्वभाविजीवनसंगिनीम् विवाहात् पूर्वम् एकवारं मिलानि!
गो- नहि..........नहि......। अति कठिनं कार्यमेतत्। मया न साध्यम्। चन्द्रकलायाः पिता
स्वभावतः अतिक्रोधी अस्ति। तस्य ज्ञानं भवेत् तर्हि मम कल्याणं नास्ति! ................... नहि
बन्धो, नहि...... मया एतत् न भविष्यति।
रा- (गोविन्दं मानयन)  मित्रस्य कृते एतत् लघुकार्यं कर्तुं न शक्नोषि!
गो- लघुकार्यमेतत्!...... रे पितः!..........हिमालयवत् कार्यमिदम्। त्वं लघु इति कथयसि! कः
प्राणान् संकटे पातयितुं प्रभवेत्!
रा- बाढम्! त्वं न कर्तुं शक्नेाषि, तर्हि अहमेव कमपि उपायं विचारयामि।..............चलामि........।
गो- अरे कुमारजी........भवान् तु रुष्यति!........... इदानीं तु मित्रम् अतिरिच्य भवान् मम सम्बन्धी
अपि भविता...।......प्राणान् संकटे पातयामि।........दृक्ष्यते, पुनः किं भविता!..............किमपि
चिन्तयामि.........।
रा- (प्रसन्नतया गोविन्दम् आलिंगति। तस्य दक्षिणकपोलं चुम्बति च। गोविन्दः साश्चर्यं
दर्शकाभिमुखो भूत्वा पश्यति।)
 
इति प्रथमदृश्यम्।
 
द्वितीयदृश्यम्
 
(मंचे चन्द्रकला भ्रातृजायाभ्यां सह)
सुमन- चन्द्रकले शीघ्रं चल। विद्यालयस्य विलम्बो भवति। इति मञ्चे आगच्छति।
भ्रातृजाया- अरे! पुत्रि, एकमेव नीवारम् अवशिष्टम्। ( चन्द्रकलया वार्यमाणा अपि
तस्याः मुखे ददाति।)
चन्द्र- भाभीमातः! (कनीयसी भ्रातृजाया जलपात्रं स्वीकरोति। झटित्येव जलं पिबति
चन्द्रकला।)
कि- स्वस्य अवेक्षणं कुरु दीदि!
च- आम् कनीयसि भ्रातृजाये। (इति उभे आलिंगतः। सुमना प्रेम्णा पश्यति।)
कि- दीदि! चन्द्रकला भवतीं मातृवत् मन्यते।
ज्ये- किशोरि! त्वं तु अस्मिन्गृहे बहुकालानन्तरं विवाहिता आगता। यदा श्वश्रूमाता स्वर्गं
गता तदा चन्द्रकला लघ्वी आसीत्। बाल्यावस्थात एव मां भाभीमात इति एव
सम्बोधयति। चतुर्णाम् अपि भ्रातृृणां प्रिया अस्ति। कनिष्ठा अस्ति, अतः अतिलालिता
अस्ति।
कि- अतिलालनेन अपि सा विकृतमनस्का न! दायजू तु तस्याः कृते अतिशीघ्रं वरमपि
अन्विष्टवान्। एक-अर्धैकवर्षम् इतोऽपि प्रतीक्षेत!
ज्ये- चन्द्रकलायाः उपस्थित्या प्रासादो अयं मुदितः भवति। तस्याः विवाहानन्तरं तु शून्यप्रायो
भविष्यति प्रासादः।
कि- विवाहस्तु सर्वेषां भवत्येव। पुत्री पुनः परन्यासः भवति।.........ममापि तु माता
बाल्यावस्थायामेव दिवंगता!............।
ज्ये- अरे! किशोरि! त्वम् अतीव भावुका असि। अहम् अस्मि खलु तव मातृवत्। मा
खिद्यस्व।
कि- दीदि! मातृगृहस्य स्मरणमात्रेण अश्रुविगलिते भवतः नेत्रे!
ज्ये- आम् किशोरि! (इति उभे आलिंगतः।)
इति द्वितीयं दृश्यम्
 
तृतीयं दृश्यम्
 
(मञ्चस्य एकतः उभे सख्यौ हसन्त्योै गृहम् प्रति आगच्छतः। राघवः गोविन्दश्च ते पश्यतः।)
गो- पश्य। श्वेतदन्तपंक्तिरिव विहसन्ती हंसगामिनी शोभना बालिका.....।..ते
भाविजीवनसंगिनी  अस्माकं कुमारी चन्द्रकला अस्ति! (राघवः ध्यानेन पश्यति। विस्मृत
इव पश्यन्तं तं गोविन्दः प्रतिबोधयति, किन्तु स तथैवास्ते।)
रा- आश्चर्यम् आश्चर्यम्! किं कथनीयम्!
गो- कथयतु कुमार राघवेन्द्रप्रतापसिंह जी! कीदृशी भाव्यते अस्माकं चन्द्रकला!
रा- अवर्णनीया खलु। अनुपमा खलु। अद्भुता! अप्रतिमा! सुन्दरी....अतीव सुन्दरी!
गो- मन्दं वद!..........केनापि दृष्टं चेत्तर्हि प्रतीपं भविष्यति।
रा- मित्र गोविन्द! प्रकामं द्रष्टुं देहि। (गोविन्दः इतस्ततः पश्यन् सम्भ्रमं नाटयति।)
गो- कुमारमहोदय! चलतु इदानीम्।...........अत्र अधिकं कालं स्थातुं न हितकरम्।
रा- गोविन्द भ्रातः, कतिचित् क्षणान् यावद् इतोऽपि तिष्ठ।
गो- (सम्भ्रमेण) अरे राघव! भवतः तु किमपि न भवेत्। अद्य श्वो वा जामाता भविष्यति एव।
किन्तु मम तु ताडनं करिष्यति कुमार्याः भ्रातरः। अथ क्वचित् दायजूमहोदयः ज्ञास्यति
तर्हि...................(गोविन्दः प्रस्थातुं संकेतयति।)
रा- चल मित्र चल। किन्तु एकं निवेदनं मे अस्ति।........अन्तिमम्........।.
गो- एहि। वद।.......किन्तु शीघ्रम्...................।
रा-  (प्रार्थयन्) चन्द्रकलया सह मम मेलनं कारय!......
गो- आॅं.............किम्!............. विक्षिप्तो जातो वा!............
रा- अत्रपर्यन्तम् आगतः, मिलानि अपि न!................अरे!........किं वदानि!........मह्यं तु सा
सुन्दरी भाव्यते....................अतिसुन्दरी। किन्तु मामपि सा अभिलषति न वा इति अपि तु
ज्ञायताम्! मेलय मित्र.......मेलय। (हस्तग्राहं निवेदयति।)
गो- इदानीं आत्मानं मां च संकटे भावयितुं कथयसि मित्र!
रा- करबद्धं निवेदये।
गो- अस्तु। एतदपि क्रियताम्। मित्रं तु असि एव, इदानीं मम ग्रामस्य जामाता अपि असि।
(राघवः प्रसन्नतया शिरश्चालयति। गोविन्दस्य हस्तौ गृह्णाति।)
गो- पश्य......एवं कुरु............। ..................तत्र तडागस्य निकटे पुष्पोद्याने गच्छ........अहं
किञ्चिद् यत्नं करोमि।. चन्द्रकलां तव पाश्र्वे प्रेषयामि। किन्तु अवधीयताम्,
द्वित्रिनिमेषेभ्यो अधिकं वार्ता न स्यात्।
रा- बाढम्। (पुष्पोद्यानस्य समीपे गच्छति। गोविन्दः सख्योः समीपे आगच्छति।)
 
गो- अरे! चन्द्रकला! कथमसि भगिनि!
च-  (विहस्य)  अहो! गोविन्द भ्रातः! कदा आगतवान् नगरात्! भवतः अध्ययनं कथं प्रचलति!
गो- सम्यक्। .....अथ तव भाविपतिदेवो मम सहपाठी भवति।...आवां छात्रावासे सहैव वसावः।
च- (सलज्जम्) भ्रातः...........!
गो- अपि श्रावय सुमने, तीर्थभ्राता कथमस्ति!.......अरे चन्द्रकले! पुष्पोद्यानात्पुष्पाणि आनय।.......    मात्रा पूजार्थमपेक्ष्यन्ते। तावदहं सुमनंा तीर्थभ्रातुः कुशलं पृच्छामि। (चन्द्रकला गच्छति।)
गो- हाॅं, सुमन, कथमस्ति तीर्थ भ्राता!
सु- अधुना तु विष्टर एवास्ति।..........प्लास्टरकर्तनस्य अनन्तरम् एव चलनसामथ्र्यं सम्भाव्यते।
गो- हाॅं.........हाॅं............बाढं ......बाढम्।
(प्रकाशस्य गोलकं पुष्पोद्याने क्षीणं भवति।)
रा- (चन्द्रकलायाः निकटम् आगत्य)  श्रृणोतु।
(चन्द्रकला सम्भ्रमं नाटयित्वा ततः आश्वस्ता भूत्वा)
च- कथयतु।
रा- अपि भवती कुमारी चन्द्रकला!
च- ओम्! (गन्तुमिच्छति।)
रा- अरे श्रृणोतु। अपि भवत्या मम परिचयस्य विषये पृच्छा न!
च- नहि। गन्तुं प्रवर्तते।
रा-श्रृणोतु भोः! अहं भवत्याः गोविन्दभ्रातुः सहपाठी खलु। ........मगरौलतः।........
(चन्द्रकला क्षणं यावत् तिष्ठति, पश्यति लज्जते च।)
रा- (निकटम् आगत्य) भवत्यां स्पृह्ये अहम्। मयि भवत्याः कः भावः!
च- (भृशं निरीक्ष्य) भवान्........भवान् तु बहु रोचते मह्यम्।
(लज्जन्ती सा सुमनां प्रति धावति।)
च- स्वीकरोतु गोविन्द भ्रातः स्वस्य पूजापुष्पाणि! (कृत्रिमरोषं प्रदर्शयन्ती सुमनया सह प्रस्थानं
करोति।.....)...चल सुमन।
गो- (राघवं पश्यति। ततः गच्छन्तीं चन्द्रकलाम्) श्रुणु भगिनि........ श्रृणु!
(राघवः पाश्र्व आगत्य प्रहृष्टः सन् गोविन्दम् आलिंग्य चुम्बति। प्रकाशः क्षीणो
जायते।)
इति तृतीयं दृश्यम्
 
चतुर्थं दुश्यम्
 
(मञ्चस्य पर्यन्ते राघवः चन्द्रकलायाः स्मृतौ अन्यमनस्कः तिष्ठति।)
गीतम्- विश्वं मम त्वयैव
इदं जीवनं मे त्वयैव।
मदीयं तु विश्वं त्वयैव।
प्रिये यन्मदर्थं भुजे दर्शिते ते।
विधत्ते प्रमोदः पदं जीवने मे ।
यदा ते वियोगो भवेदल्पकालं
सदान्विष्यतो व्याकुले लोचने मे।
त्वमेवासि मे जीवितस्वामिनी भोः
सदैतद्धृदन्तस्त्वयैव।।1।।
 
प्रवादो न कश्चिद् न चैवापवादः।
सदा आननेऽस्या स्मितं भाति नव्या।
प्रिया मेऽद्वितीया समस्तेऽपि लोके,
नखेभ्यः शिखान्तं च रागेण भव्या।।
शशीतारकाणां च पुष्पच्छटानां
समृद्धिश्च वृद्धिस्त्वयैव।। 2।।
 
वियुक्तः कदाचिद्भवेयं यदि त्वत्,
तदा भूतलं जीवनं च त्यजेयम्।
विना त्वां करिष्ये किमस्यां धरायाम्,
निरभ्राम्बरस्य प्रमाणं भजेयम्।।
न चेदाप्नुयां त्वां प्रियेऽभ्येतु मृत्युः,
श्वासक्रमो मे त्वयैव।। 3।।
 
प्रबोधोऽस्ति मे ते प्रजानेऽप्यहं त्वाम्
अहं पूजये सर्वथा मानये त्वाम्।
व्यथाघातदोऽस्मत्समाजस्तु लोके
छलेद्वा क्वचित् स्वप्नवज्जल्पना माम्।
बिभेमि, क्वचित् कामना स्यात् न मिथ्या,
हि सत्यप्रमाणं त्वयैव।।4।।
 
श्रावणस्तु वैशाखो जातः
(श्री महेन्द्र भीष्म विरचित एकांकी ‘‘सावन बैसाख हो गया’’ इत्यस्यानुवादः) - 2 ----------------->>>>>>>>>>>>>>>>>>>>>>>>>>>
 

 


- डाॅ. नवलता
 
रचनाकार परिचय
डाॅ. नवलता

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (2)