प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
जनवरी 2018
अंक -42

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्

आलेख: - “वैविध्य-समावेशिनी संस्कृत-पत्रकारिता”  

                               

संस्कृत-पत्रकारितायाः वैविध्य-समावेश-स्वरूप-विषये विस्तरेण किमपि कथनात् प्राक् सुधी-पाठकानां पुरस्तात् एतत् स्पष्टीकर्तुं समीहे यत् लोके साम्प्रतं हिन्दी-भाषायाः आङ्ग्लभाषायाः वा अन्यासां प्रचलितानां भाषाणां पत्रकारिता-वैविध्यमिव संस्कृत-पत्रकारितायाः वैविध्य-समावेशः अपि तावता अवधानेन नैव परिचर्च्यते, परञ्च तथ्यमेतत् सूर्य-प्रकाशमिव सुद्योतितमेव यत् अधुनातनेsपि काले भारतस्य प्रायेण सर्वेष्वपि राज्येषु केषुचित् विदेशेष्वपि सुबहु-कालात् अनेक-विधाः वैविध्य-समावेश-स्वरूपान्विताः संस्कृत-पत्र-पत्रिकाः प्रकाश्यन्ते स्म प्रकाश्यन्ते च |

एताः संस्कृत-पत्र-पत्रिकाः समीक्ष्य एवं वक्तुं शक्यते यत् आरम्भादेव संस्कृत-पत्रकारिता वैविध्य-समावेशिनी प्रावर्त्तत, अपि चैषा,  इतः परमपि अधुनातन-जीवनस्य सर्व-विध-वृत्तान्त-समावेशिनी सती बुधानां विबुधानां सहृदयानां सुरभारती-समुपासकानां संस्कृतानुरागिणाञ्च चेतान्सि समाकर्षयिष्यति |

 

कदा प्रभृति आरब्धा एषा आधुनिकी संस्कृत-पत्रकारिता ?

साम्प्रतं प्रश्नोsयं समुदेति यत् विदुषां मतानुसारेण संस्कृत-पत्रकारितायाः शुभारम्भः कदा प्रभृति स्वीकर्तव्योsस्ति ? प्रामाणिक-समीक्षादृशा साम्प्रतं संस्कृत-पत्रकारितायाः वैविध्य-समावेश--विषये किमपि लिलेखिषुरहं न केवलं लेखकधिया, अपि तु विगतेभ्यः  द्वाचत्वारिन्शद्वर्षेभ्यः आकाशवाण्याः वार्त्ता-सेवा-प्रभागे, द्वाविन्शत्संवत्सरेभ्यः च दूरदर्शने  संस्कृत-वार्त्तानां सम्पादनानुवाद-प्रसारणैः अधिगत-दीर्घानुभवाधारेण वक्तुमुत्सहे यत् व्यवहारे लोक-जीवने च समधिक-प्रयोगाभावेsपि सुरभारती एषा सर्वदैव, साहित्ये वा दर्शने वा शिल्पे वा योगे वा नाट्ये वा आयुर्वेदे वा विविध-विज्ञानेषु वा पत्रकारितायां वा विविध-रूपा सती समावेशात्मिका सती अधिकाधिकानां मनःस्पन्दिनी सती चानारतं व्यराजत विराजते विराजिष्यते च | अत्रास्ति किमपि  विशिष्टं कारणमिति परिभावयामि |

                                               

संस्कृत-पत्रकारितायाः संक्षिप्तम् ऐतिह्यम् -

यथा अत्रभवद्भिः बहुधा श्रुतं स्यात् यत् -“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा |” अतः यया रीत्या भारतीया संस्कृतिः वैविध्य-समावेशिनी वर्त्तते तद्वद् संस्कृत-पत्रकारितापि वैविध्य-समावेशिनी सती विजयते | यथैव हिन्दीभाषायाः पत्रकारितायाः आरम्भ-विषये किमपि लिख्यते तदा सर्वप्रथमं हिन्दी-भाषायाः प्रथम-पत्रं “उदन्त-मार्तण्ड”- [ १८२६ ई., सम्पादक- पं. जुगलकिशोर-शुकुल] इति नूनं सन्दर्भ्यते | तद्वद् विदांकुर्वन्तु अत्र भवन्तो भवन्तः यत् संस्कृत-पत्रकारितायाः सार्धैक-शत-वर्षीया सुदीर्घा यात्रैषा गत-ख्रिष्टीयवर्षे [१९१६] मे-मासान्ते पूर्णतां गता | इतः पूर्वं १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथमे दिनाङ्के काशीतः “काशीविद्यासुधानिधिः” -इति मासिकं पत्रं प्रकाशितमासीत् | संस्कृत-पत्रकारितायाः इतिहासान्तर्गतं प्रकाशितस्य प्रथमस्य संस्कृत-मासिक-पत्रस्य अस्य अपरं नामासीत्– “पण्डित-पत्रिका |” साम्प्रतं विद्वद्भिः स्वीक्रियते यत् अस्मादेव कालात् वैविध्य-समावेशिन्याः आधुनिक-संस्कृत-पत्रकारितायाः शुभारम्भः परिगण्यते चेत् साधु !

 

भारतस्य क्षेत्रीय-भाषाणां पत्रकारितायाः इतिहासाध्ययनेन प्रतीयते यत् क्षेत्रेsस्मिन् अनेकासां दैनिक-मासिक-पत्र-पत्रिकाणां राष्ट्रिय-स्वाधीनता-संग्रामे महत्त्वाधायि योगदानम् अवर्त्तत परञ्च केसरी-इति पत्रस्य तत्रान्तरे किमपि विशिष्टं महत्त्वमासीत् | तदा स्वाधीनता-संग्रामावसरे अनेकविधानां काठिन्यानां साम्मुख्यानन्तरं नामजोशी-वर्यस्य व्यावहारिक-कुशलता-पुरस्सरं १८८१-तमे ख्रिष्टीय-वर्षे जान्युआरि-मासे चतुर्थे दिने “केसरी”-इति मराठी-भाषिकस्य साप्ताहिक-पत्रस्य प्रकाशनं प्रतिभौमवासरम् आरब्धम् |

यं विषयं सोद्देश्यं संकेतयामि सोsस्ति “केसरी”- इति मराठी-साप्ताहिक-पत्रस्य मुख-पृष्ठोपरि प्रकाश्यमानः पण्डितराज-जगन्नाथस्य “भामिनीविलास” इति-ग्रन्थस्य समुपयुक्तः   संस्कृत-श्लोकः यो हि ‘केसरी’-पत्रस्य कार्योद्देश्यं द्योतयति | विष्णुशास्त्री-चिप्लूणकरेण चितः ‘केसरी’-मुखपृष्ठोपरि मुद्राङ्कितः श्लोकोsस्ति –

 “स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण-सखे !, गज-श्रेणीनाथ ! त्वमिह जटिलायां वनभुवि |   

 असौ कुम्भि-भ्रान्त्या खरनखरविद्रावित-महा-गुरु-ग्राव-ग्रामः स्वपिति गिरिगर्भे हरिपतिः ||”

                                                                  

महतो हर्षस्य विषयोsयं यत् संस्कृत-पत्रकारिता स्वीय-आरम्भ-कालादेव वैविध्य-समावेशिनी सती प्राकाश्यम् आगमनात् प्रागेव [ ईस्वी. १८६६-तः प्रागेव ] भारतस्य क्षेत्रीय-भाषासु बीजरूपेण व्यवह्रियते स्म | ममेदं विनम्रं मन्तव्यं यत् तदानीन्तन्याः विविध-भाषाणां पत्रकारितायाः वार्त्ताहराः, पत्रकाराः, लेखकाः, सम्पादकाः, प्रकाशकाः च आधिक्येन संस्कृतज्ञाः संस्कृतानुरागिणः सन्तः संस्कृति-संस्कृतनिष्ठाः चासनम्, पत्रकारितायाः समर्पित-कार्यार्थं संस्कृतस्य समृद्धं साहित्यम् आश्रयन्ति स्म | 

तथ्यमेतत् सुस्पष्टं यत् भारतस्य स्वाधीनता-प्राप्त्यर्थं सामान्य-जनानां भाषासु सम्वादः विचार-सञ्चारः चावश्यकः आसीत् अत एव संख्यादृशा विभिन्नासु भारतीय-भाषासु अधिक -तराः, संस्कृत-भाषायां च न्यूनाः पत्रपत्रिकाः प्रकाशिताः अभूवन् | किन्तु भारतस्य सर्वेभ्योsपि राज्येभ्यः प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां विषयजातं संख्याबलञ्च सन्दर्भयामश्चेत् तदा कस्याश्चन क्षेत्रीय-भाषायाः आहोस्वित् राष्ट्रभाषायाः हिन्द्याः वा उर्दू-आङ्ग्लभाषयोः तुलनायां समग्रतया प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां संख्या अधिकतरा सिद्ध्यति | अनुसन्धानानुसारेण राष्ट्रस्य सर्व-विध-संस्कृत-पत्र-पत्रिकाणां संख्यैषा १२०-तः १३०-पर्यन्तं परिगणयितुं शक्यते|

 

लघुकाये आलेखेsस्मिन् वैविध्य-समावेशिन्याः सार्धैक-शती-कालिकायाः संस्कृत-पत्रकारितायाः इतिवृत्तं विस्तरेण वर्णयितुं नैव शक्यते, परञ्च कासाञ्चन प्रमुखाणां संस्कृत-पत्र-पत्रिकाणाम् अध्ययनेन प्रतीयते यत् विविध-स्थानेभ्यः प्रकाशिताः प्रकाश्यमानाश्च एताः पत्रिकाः प्रामुख्येण द्विविधाः लभ्यन्ते | तयोरन्यतराः सन्ति शोध-पत्रिकाः यासु शोधलेखाः, प्राचीन-ग्रन्थाः, पाण्डु-लिपयश्च मुख्यतया प्रकाश्यन्ते स्म प्रकाश्यन्ते च | अपराः पत्रिकाः, सामान्यतया साप्ताहि- क्यः, पाक्षिक्यः, मासिक्यः, द्वैमासिक्यः, त्रैमासिक्यः, षाण्मासिक्यः, वार्षिक्यः, द्विवार्षिक्यश्च सन्ति यासु प्रायेण सर्वेषामपि विषयाणां सामग्री मुद्रिता विहिता विधीयते च | अत एव, “संस्कृत-पत्रकारिता वैविध्य-समावेशिनी” इति सुतरां सुसिद्ध्यति |

साम्प्रतं पूर्वकालापेक्षया स्थितिः नितरां भिन्ना प्रतिभाति | प्रतीयते यत् संस्कृत-पत्रकारितायाः भविष्यत् उज्ज्वलमस्ति | आश्वस्ति-पुरस्सरं वक्तुं शक्यते यत् आसन्न-प्रायोsयं कालः यदा युवकाः युवत्यश्च आधिक्येन संस्कृतम् अध्येतुं भाषितुञ्च समीहितारः, अपि च, सामाजिक-संचार-माध्यमेषु इतरभाषापेक्षया संस्कृतविद्या अधिकाधिकं प्रयुक्ता भविता |

 

स्वाधीनता-संग्रामावसरे संस्कृत-पत्रकारिता सर्वत्र बीजरूपेण सिद्धा -   

बीजरूपेण इतर-भाषा-पत्रकारितायां प्रवर्त्तमाना सती आधुनिक्यैषा संस्कृतपत्रकारिता स्वतन्त्रता-संग्रामस्य विशिष्टोपलब्धित्वेन ख्यापयितुं शक्यते | नवीनविचाराणां सूत्रपातं प्रवर्धयितुं राष्ट्रीयतां विवर्धयितुं चैषा अभूतपूर्वम् अमूल्यञ्च योगदानं व्यदधात् | अनुसन्धानानुसारेण तथ्य-मेतद् स्पष्टीभूतं यत् १८३२-तमे वर्षे बंगाल-एशियाटिक्-सोसाइटीति संस्थया अंग्रेजी-संस्कृत-भाषयोः  एका द्विभाषिक-शोध-पत्रिका प्रकाशिता | अस्यां पत्रिकायां संस्कृत-साहित्यस्य अनुसन्धानपूर्णाः  गवेषणात्मक-पुरातन-सामग्रीयुताः आलेखाः प्रकाश्यन्ते स्म | अनया पत्रिकया आङ्ग्लभाषा-ज्ञातारः साक्षराः संस्कृतज्ञाः कामपि अभिनवां चेतनामनुभूतवन्तः, अपि च, राष्ट्रं स्वभाषां साहित्यञ्च प्रति गौरवभावमधिगतवन्तः |

 

यथापूर्वं लिखितं काशी-स्थितेन गवर्नमेन्ट-संस्कृत-कॉलेज्-इत्यनेन “काशी-विद्यासुधा-निधिः” अथवा “पण्डित-पत्रिका” नाम्नी मासिक-पत्रिका १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथम-दिनाङ्कात् प्रकाशयितुमारब्धा | तदनु, काशीतः एव, १८६७-तमे ख्रिष्टीय-वर्षे “क्रमनन्दिनी”-नाम्नी पत्रिका प्रकाशिता जाता | विशुद्ध-संस्कृत-भाषया प्रकाश्यमाने इमे पत्रिके प्राचीनानां विविध-विषयाणां संस्कृत-ग्रन्थान् प्रकाशयतः स्म | अत्रेदमपि वक्तुं शक्यते यद् अनयोः पत्रिकयोः विशुद्ध-वार्त्तापत्राणां किञ्चिदपि लक्षणं नैवासीत् | तत्रान्तरे, वर्ष-चतुष्टयानन्तरं १८७२-तमे ख्रिष्टीय-वर्षे  एप्रिल्-मासे लाहौरतः “विद्योदयः”- इति नवीन-सज्जा-युतं शुद्ध-वार्त्तापत्रमेकम् अवतारितम् | हृषीकेश-भट्टाचार्यस्य सम्पादकत्वे पत्रमेतत् संस्कृत-पत्रकारितायै अपूर्वं किमपि सम्बलं प्रादात् |ततः परं विद्योदयतः प्रेरणामादाय संस्कृत-भाषायाः अनेकाः नवीनाः पत्र-पत्रिकाः प्रकाश्यमागताः |

 

बिहार-राज्यस्य प्रथमं संस्कृत-पत्रं १८७८-तमे ख्रिष्टीये वर्षे पटनातः प्रादुरभवत् | “विद्यार्थी”-नामकं मासिकपत्रमेतत् १८८०-वर्षे पटनातः नियत-कालिकं सत् प्राकाश्यमानीतम्, अनन्तरम् उदयपुरं सन्नीतम्, ततः पाक्षिक-संस्कृत-पत्ररूपेण एतत् प्रकाश्यते स्म | किञ्चित्-कालानन्तरं पत्रमिदं श्रीनाथद्वारा-तः प्रकाश्यते स्म | ततः परं एतत् हिन्दी-भाषायाः “हरिश्चन्द्र-चन्द्रिका” “मोहनचन्द्रिका” चेति पत्रिकाद्वयेन सम्भूय प्रकाशितं जातम् | संस्कृत-भाषायाः प्रप्रथमं पाक्षिक-पत्रमिदमासीत् यद्धि यथानाम विद्यार्थिनां हितानि विविधावश्यकताश्च आलक्ष्य सामग्री-जातं प्रकाशयति स्म | तत्कालीनः सुख्यातः संस्कृत-पत्रकारः पं.दामोदरशास्त्री अस्य पाक्षिक-पत्रस्य सम्पादकः आसीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

 

१८८०-तमे वर्षे पटनातः एव मासिकं ‘धर्मनीति-तत्त्वम्’ आरब्धम्, परञ्च नास्य विषये काचित् विशिष्टा सूचना अवाप्यते, न चास्य कश्चन अङ्कोsपि लभ्यते |

१८८४-तमे वर्षे ओक्टोबर-मासे सप्तदश-दिनाङ्कात् केरल-राज्यस्य कुन्नूर-तः ‘विज्ञान-चिन्तामणिः’- इति मासिकी पत्रिका प्राकाश्यमागाता | किञ्चित्-कालानन्तरं प्रचारातिरेक-कारणात् पत्रिकैषा पाक्षिकी, दशाह्निकी च सती अन्ततः साप्ताहिकी विहितासीत् | नीलकान्त-शास्त्रिणः सम्पादकत्वे पत्रिकेयं संस्कृत-पत्रकारितायाः विकासक्रमे अतितराम् उल्लेखनीया सिद्धा |

 संस्कृतस्य समृद्धि-प्रतिष्ठयोः शिक्षाप्रणाली-परिष्कारस्य च कृते पण्डित- अम्बिकादत्त-व्यासेन १८८७-तमे वर्षे स्थापिता संस्था ‘बिहार-संस्कृत-सञ्जीवन-समाजः’, संस्कृतस्य  प्रचार-प्रसारार्थम् अनारतं प्रायतत | अस्याः संस्थायाः प्रथमोपवेशनं १८८७-तमे वर्षे एप्रिल्-मासे पञ्चमे दिनाङ्के सम्पन्नम्, यस्य च आध्यक्ष्यं पॉप्-जॉन्-बेन्जिन्-इत्यनेन निर्व्यूढम् | उपवेशनेs- स्मिन् विभिन्नेभ्यो राज्येभ्यः अनेके संस्कृतानुरागिणः तदानीन्तनाः पत्रकाराः, लेखकाः, कवयः,  वार्त्ताहराश्च सहभागित्वं निर्वोढुं सम्प्राप्ताः आसन् | संस्था-सचिवः स्वयं पण्डित-अम्बिकादत्त- व्यासः एवासीत् | अमुना समाजेन १९४०-तमे वर्षे त्रैमासिकस्य ‘संस्कृत-सञ्जीवनम्’- इति पत्रस्य प्रकाशनमारब्धमासीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

 

ऊनविन्श-शताब्द्याः अन्तिमे दशक-द्वये अनेकाः पृथग्विधाः संस्कृत-पत्रिकाः प्रकाशिताः जाताः | राष्ट्रिय-आन्दोलन-दृशा एतासु “संस्कृत-चन्द्रिका” “सहृदया” च विशिष्टं स्थानमावहतः स्म | पूर्वं कोलकोतातः कोल्हापुरतश्च प्रकाश्यमाना “संस्कृत-चन्द्रिका” अप्पाशास्त्रि-  राशिवडेकरस्य सम्पादकत्वे दिगन्त-व्यापिनीं ख्यातिमार्जयत् | स्वीय-राजनैतिकानाम् आलेखानां प्रकाशन-कारणात् अप्पाशास्त्री नैकवारं कारावासेन दण्डितः आसीत् | संस्कृत-भाषायाः पोषणं, सम्वर्धनं, संस्कृत-भाषावित्सु उदार-मन्तव्याधानस्य प्रचारं, राष्ट्र-हितार्थं सुषुप्त-संस्कृतज्ञानां जागरणं चेत्यादि-लक्ष्याणि अवधार्य “सहृदया” राष्ट्रिय-आन्दोलने महत्त्वाधायिनीं भूमिकामावहत् |  

विन्श-शताब्द्याः आरम्भे लोकमान्यस्य बाल-गङ्गाधर-टिळकस्य नेतृत्वे अशेष-राष्ट्रं स्वदेशि-आन्दोलने सहभागित्वमावहत् | संस्कृत-पत्रकारितायाः कृते एतत् सम्वर्धन-युगमासीत् | तस्मिन्न- वसरे देशस्य विभिन्नेभ्यो भागेभ्यः अनेकाः संस्कृत-पत्र-पत्रिकाः प्रकाशिताः, यासु ‘भारतधर्मः’ [१९०१ ई.], ‘श्रीकाशीपत्रिका’ [१९०७ ई.], ‘विद्या’ [१९१३ ई.], ‘शारदा’ [१९१५ ई.], ’संस्कृत-साकेतम्’ [१९२० ई.] प्रभृतयः प्रमुखाः आसन् |  ‘अर्वाचीनसंस्कृतसाहित्या’नुसारं  १९१८-तमे वर्षे पटनातः संस्कृत-संजीवन-समाजेन पाक्षिकस्य ‘मित्रम्’-इत्यस्य प्रकाशनमारब्धमासीत् |

 

स्वतन्त्रता-संग्राम-दिनेषु अपराः प्रमुखाः संस्कृत-पत्रिकाः आसन् – ‘आनन्दपत्रिका’ [१९२३ ई.], ‘गीर्वाणः’ [१९२४ ई.], ‘शारदा’ [१९२४ ई.], ‘श्रीः’ [१९३१ ई.], ‘उषा’ [१९३४ ई.], ‘संस्कृत-ग्रन्थमाला’ [१९३६ ई.], ‘भारतश्रीः’ [१९४० ई.] चेत्यादयः | १९३८-तमे वर्षे कानपुरतः अखिलभारती- य-संस्कृत-साहित्य-सम्मलेनस्य “संस्कृत-रत्नाकरः”-इति मासिकं मुखपत्रम् आरब्धम् | श्रीकेदारनाथ -शर्मा अस्य सारस्वतः सम्पादकः प्रकाशकश्चासीत् | १९४३-तमे वर्षे राष्ट्रिय-संस्कृत-विद्यापीठेन “गंगानाथ-झा-रिसर्च-जर्नल्”-इति त्रैमासिकी पत्रिका प्राकाश्यमानीता |

 

स्वतन्त्रता-प्राप्तेरनन्तरं भारतस्य नाना-भागेभ्यः प्रकाश्यमानासु प्रमुखासु संस्कृत-पत्रिकासु, ‘ब्राह्मण-महासम्मेलनम्’ [१९४८ ई.], ‘गुरुकुलपत्रिका’ [१९४८ ई.], ‘भारती’ [१९५० ई.], ‘संस्कृत-भवितव्यम्’ [१९५२ ई.], ‘दिव्यज्योतिः’ [१९५६ ई.], ‘शारदा’ [१९५९ ई.], ‘विश्व-संस्कृतम्’ [१९६३ ई.], ‘संविद्’ [१९६५ ई.], ‘गाण्डीवम्’ [१९६६ ई.], ‘सुप्रभातम्’ [१९७६ ई.], ‘संस्कृत-श्रीः’ [१९७६ ई.] ‘प्रभातम्’ [१९८० ई.], ‘लोकसंस्कृतम्’ [१९८३ ई.], ‘व्रजगन्धा’ [१९८८ ई.], ‘श्यामला’ [१९८९ ई.] प्रभृतयः परिगण्यन्ते | आसु सर्वासु संस्कृत-पत्र-पत्रिकासु सन्निहितानां विविध-विषयाणां समीक्षणेन सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

 

अस्मिन्नेव अवधौ [१९७०-तमे वर्षे ] संस्कृत-पत्रकारितायाः क्षेत्रे विशिष्टा  ऐतिहासिकी घटना समपद्यत यस्याः महानायकः आसीत् – कर्नाटक-राज्यस्य मैसूरू-नगरस्थः   सुप्रसिद्धः संस्कृत-विद्वान्, गीर्वाणवाणीभूषणः, विद्यानिधिः, पण्डित-कळले-नडादूरु-वरदराजय्य- ङ्गार्यः, येन मैसूरू-तः “सुधर्मा” इति दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य विश्व-पत्रकारितायाः मञ्चोपरि संस्कृत-पत्रकारितायाः ध्वजमुत्तोलितवान् | नैक-संवत्सर-पूर्वं दिवङ्गतेsपि पण्डित-कळले-नडादूरु-वरदराजय्यङ्गार्य-वर्ये, अधुनापि तस्यात्मजः श्रीसम्पत्कुमारः सम्पादकत्वेन ‘सुधर्मा’-सातत्यं संधारयति, यद्यपि पूर्वं कदाचित् १९०७-तमे वर्षे जान्युआरिमासे प्रथम-दिनाङ्कात् केरळे    थिरुअनन्तपुरम्-तः “जयन्ती”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य श्रीकोमल-मारुताचार्येण  श्रीलक्ष्मीनन्द-स्वामिना च अभूतपूर्वं साहसं प्रदर्शितमासीत् किन्तु धनस्य ग्राहक-पाठकयोश्च  अभाव-कारणात् संस्कृत-दैनिकस्य अस्य प्रकाशनं कतिपय-दिनाभ्यन्तरे एव पिधातुं विवशौ जातौ-श्रीकोमल-मारुताचार्यः श्रीलक्ष्मीनन्द-स्वामी च |  कालान्तरे, कानपुरतोsपि कतिपय-मासार्थं   “सुप्रभातम्”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाशितं जातं किन्तु पाठक-ग्राहकयोः अभावात् एतदपि अवरुद्धम् |

 

संस्कृत-पत्रकारितायाः अधुनातनं स्वरूपम्  –                             

संस्कृतं नाम भारतस्य सांस्कृतिकं रिक्थम् | एतद्देशस्य अभिज्ञानम् | भारतस्य अस्मिता | स्वतन्त्र-भारतस्य भाषा-सम्बद्धायाः नीतेः चक्रव्यूहमुपेक्ष्य पश्यामः चेत् अद्यत्वे संस्कृतपत्रकारितायाः क्षेत्रेsनारतं विधीयमान् विविधान् प्रयोगान् परीक्षामहे चेत्, नूनमेतत् प्रतिभाति यत् विश्वस्य अधिकाधिकाः भाषाः, अमुना वैज्ञानिकेन गणितात्मकेन पूर्णेन च वाणी-विज्ञानेन लाभान्विताः भवन्ति | Computational Linguistic Science-इति विज्ञान-जातं परिपोष- यितुं सम्वर्धयितुञ्च संस्कृतस्य शब्दानुशासनं समधिकं सहायकं जायते | प्रवर्तमाने एतादृशि परिदृश्ये केषाञ्चन विशिष्ट-कारणानां कारणात्  मन्दतामापन्ना संस्कृत-पत्रकारिता, आधुनिक-सञ्चार-माध्यमानां सर्वविध-क्षेत्रेषु सामाजिक-सञ्चार-माध्यमेषु च स्वीयां समुपयोगितां प्रभावञ्च  सुतरां प्रतिष्ठापयति |

 

संस्कृत-पत्रकारितायाः आधुनिक-युगं सुनिश्चेतुं यदि वयं एकविन्श-शताब्द्याः आरम्भ-कालं स्वीकुर्मश्चेत्, किञ्चित्-सिंहावलोकनं कृत्वा विन्श-शताब्द्याः अन्तिम-दशक-त्रये सञ्जातायाः सूचना-क्रान्तेः प्राविधिक-विकास-प्रक्रियायाः च समीक्षा व्यापक-परिधौ परिशीलनीया | अत्रभवन्तः सुधी-पाठकाः मम सङ्केतमवगतवन्तः इति मन्ये |

वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः विकास-शृंखला-क्रमे अपरैका ऐतिहासिकी घटना घटिता, नूनं सात्र समुल्लेखनीयास्ति | भारत-सरकारस्य सूचना-प्रसारण-मन्त्रालयेन आरम्भे प्रयोगात्मक-रूपेण १९७४-तमे वर्षे जून-मासे ३०-तमे दिनाङ्के प्रातः ९-वादने आकाशवाण्याः दिल्ली-केन्द्रात् राष्ट्रिय-प्रसारणत्वेन संस्कृत-वार्त्तानां पञ्च-मिनिटात्मकं प्रसारणमारभ्य ताः सर्वाः अपि भ्रान्तयोsपाकृताः, ते सर्वेsपि चापवादाः अपसारिताः यत् संस्कृतं नाम भाषित-भाषात्वेन व्यवहर्तुं नैव शक्यते वा प्राविधिकाः विचाराः संस्कृतेन अभिव्यञ्जयितुं नैव शक्यन्ते इति | अस्य राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य लोकप्रियतां सर्वजन-ग्राह्यताञ्च आलक्ष्य कतिपय-मासानन्तरं अपरमेकं पञ्च-मिनिटात्मकं संस्कृत-वार्त्तानां राष्ट्रिय-प्रसारणं सायं दश-मिनिटधिक-षड्-वादनतः आरब्धम्    | नैतावदेव, १९९४-तमे वर्षे ओगष्ट-मासे २१-तमे दिनाङ्के रविवारे दूरदर्शनेन साप्ताहिकं संस्कृत-वार्ता-प्रसारणमारभ्य अभिनवं कीर्त्तिमानं प्रतिष्ठापितम् | ईश्वरानुग्रहेण दूरदर्शनात् प्रथमस्य साप्ताहिक-राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य शुभावसरः आसां पङ्क्तीनां लेखकेन अवाप्तः | एतदनु, कतिपय-वर्षानन्तरं दूरदर्शनस्य साप्ताहिक-संस्कृत-वार्त्ता-प्रसारणमिदं पञ्च-मिनिटात्मका- वधये प्रतिदिनं प्रातः प्रसारयितुमारब्धम् | अतः सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

 

अस्मिन्नेव काल-खण्डे अपरैका ऐतिहासिकी घटना संवृत्ता यया संस्कृत-पत्रकारितायाः प्रवर्त्तमाना मन्दगतिः तीव्रतरा विहिता | संस्कृतानुरागिणः केचन समुत्साहिनो युवानः एतेषु दशकेषु संस्कृतं भाषित-भाषात्वेन प्रतिष्ठापयितुं संघटनात्मक-रूपेण सक्रियाः सन्तः  राष्ट्रव्यापि-अभियानान्तर्गतं संस्कृत-प्रचार-कार्याणि कुर्वन्तः चासनम्, गच्छता कालेन एतानि प्रचार-कार्याणि साम्प्रतम् अन्ताराष्ट्रिय-स्तरे विधीयन्ते | कर्णाटके बंगलूरु-नगरे कार्यरतं “हिन्दू-सेवा-प्रतिष्ठानम्”, अधुनातनरूपेण च “संस्कृत-भारती”, “लोकभाषा-प्रचार-समितिः” “विश्व-संस्कृत-प्रतिष्ठानम्” प्रभृतीनि कानिचित् एतादृन्शि नामानि सन्ति, यैः पत्रकारितायाः अधुनातन-स्वरूपं  व्यवस्थापयितुं व्यापकतरञ्च विधातुं महत्-योगदानमनुष्ठितम्, अपि च, प्रत्येकमपि संस्कृतानुरागी समाश्वासितोsस्ति यत् कालोsयं समुपागतः यदा न केवलं भारतीयाः, वैदेशिकाः अपि, धाराप्रवाहेण   संस्कृतं भाषिष्यन्ते | अस्म्न्नेव शृंखला-क्रमे “संस्कृत-भारती” १९९९-तमे वर्षे बंगलूरू-तः “सम्भाषण-सन्देशः” इति मासिक-पत्रिकां प्राकाशयत् | मासिक-पत्रिकैषा स्वीय-कलेवर-सज्जायाः, सरल-संस्कृत-भाषायाः विषय-वैविध्यस्य च कारणात् देशे विदेशेषु चातितरां लोकप्रिया प्रवर्त्तते |

          

एवं हि प्रवर्तमानासु विविध-विषयिणीषु आसु पत्र-पत्रिकासु -

संवित् [ पाक्षिकं पत्रम् ], संस्कृत-बाल-संवादः [ मासिकं पत्रम् ], गीर्वाणी [ मासिकं पत्रम् ], महास्विनी [ षाण्मासिकं पत्रम् ], आरण्यकम् [ षाण्मासिकं पत्रम् ], संस्कृत-सम्मेलनम् [ त्रैमासिकं पत्रम् ], अर्वाचीन-संस्कृतम्      [ त्रैमासिकं पत्रम् ], आर्षज्योतिः [ मासिकं पत्रम् ], संस्कृत-प्रतिभा [ त्रैमासिकं पत्रम् ], संस्कृत-मञ्जरी [ त्रैमासिकं पत्रम् ], संस्कृत-वार्त्ता [ त्रैमासिकं पत्रम् ], संस्कृत-विमर्शः [ वार्षिकं पत्रम् ], अभिव्यक्ति-सौरभम् [ त्रैमासिकं पत्रम् ], अतुल्यभारतम् [ मासिकं पत्रम् ], संस्कृतवाणी [ पाक्षिकं पत्रम् ], संस्कृत-सम्वादः [ पाक्षिकं पत्रम् ], संस्कृत-रत्नाकरः [ मासिकं पत्रम्], दिशा-भारती [ त्रैमासिकं पत्रम् ], देव-सायुज्यम् [ त्रैमासिकं पत्रम् ], संस्कृत-वर्तमानपत्रम् [ दैनिकं पत्रम् ], विश्वस्य वृत्तान्तम् [ दैनिकं पत्रम् ], संस्कृत-साम्प्रतम् [ मासिकं पत्रम् ], निःश्रेयसम् [षाण्मासिकं पत्रम् ], श्रुतसागरः [ मासिकं पत्रम् ], सेतुबन्धः [ मासिकं पत्रम् ], हितसाधिका [पाक्षिकी पत्रिका], दिव्यज्योतिः [ मासिकं पत्रम् ], रावणेश्वर-काननम् [ मासिकं पत्रम् ], रसना [ मासिकं पत्रम् ], दूर्वा [ त्रैमासिकं पत्रम् ], नाट्यम् [ त्रैमासिकं पत्रम् ], सागरिका [ त्रैमासिकं पत्रम् ], ऋतम् [ द्विभाषिकं मासिकं पत्रम् ], स्रग्धरा [ मासिकं पत्रम् ], अमृतभाषा [ साप्ताहिकं पत्रम् ], प्रियवाक् [ द्वैमासिकं पत्रम् ], दिग्दर्शिनी [ त्रैमासिकं पत्रम् ], वसुन्धरा [ त्रैमासिकं पत्रम् ], संस्कृत-मन्दाकिनी [ षाण्मासिकं पत्रम् ], लोकप्रज्ञा [ वार्षिकं पत्रम् ], लोकभाषा-सुश्रीः [ मासिकं पत्रम् ], लोकसंस्कृतम् [त्रैमासिकं पत्रम् ], विश्वसंस्कृतम् [ त्रैमासिकं पत्रम् ], स्वरमङ्गला [ त्रैमासिकं पत्रम् ], भारती [ मासिकं पत्रम् ], रचना-विमर्शः [ त्रैमासिकं पत्रम् ], सरस्वती-सौरभम् [ मासिकं पत्रम् ] संस्कृतश्रीः [ मासिकं पत्रम् ], वाक् [ पाक्षिकं पत्रम् ], अजस्रा [ त्रैमासिकं पत्रम् ], परिशीलनम्    [ त्रैमासिकं पत्रम् ], प्रभातम् [ दैनिकं पत्रम् ], व्रजगन्धा [ त्रैमासिकं पत्रम् ], संगमनी [ त्रैमासिकं पत्रम् ], विश्वभाषा [ त्रैमासिकं पत्रम् ], भास्वती [ षाण्मासिकं पत्रम् ], कथासरित् [ षाण्मासिकं पत्रम् ], दृक् [ षाण्मासिकं पत्रम् ], वाकोवाकीयम्  [ षाण्मासिकं पत्रम् ], वैदिक-ज्योतिः [षाण्मासिकं पत्रम् ], अभिषेचनम् [षाण्मासिकं पत्रम्], अभ्युदयः [षाण्मासिकं पत्रम्] सत्यानन्दम् [ मासिकं पत्रम् ], संस्कृत-साहित्य-परिषत्-पत्रिका [ त्रैमासिकं पत्रम् ]  चेत्यादयः अन्यतमाः सन्ति | आभिः वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः क्षेत्रं समधिकं सक्रियं व्यापकतरञ्च विहितम् |

 

एतदतिरिच्य, Hindustan Samachar- इति पृथग् एकं संस्कृत-वार्त्तनाम् अभिकरणं [ न्यूज-एजेन्सी ] अपि प्रवर्त्तते | एते सर्वेsपि संस्कृत-पत्रकाराः संस्कृत-कर्मिणश्च हार्दिकाभिनन्दनेन  मंगलकामनाभिश्च वर्धाप्यन्ते !

वैद्युदाणविक-युगे [ Electronic Era ] बहव्यः ई-पत्रिकाः अपि प्रकाश्यन्ते - एतासु प्राची प्रज्ञा [मासिकी ई-पत्रिका ], जान्हवी [ त्रैमासिकी ई-पत्रिका ], संस्कृत-सर्जना [ त्रैमासिकी ई-पत्रिका ] सम्प्रति वार्त्ताः [ दैनिकं ई-पत्रम् ], अपि च, सम्प्रति वार्त्ताः-इति दैनिकं [ई-पत्रीय-दृश्यवार्त्ता-प्रसारणम्] चादयः प्रमुखाः सन्ति |

सुधी-पाठकाः वृत्तमेतत् विज्ञाय सुखदमाश्चर्यम् अनुभविष्यन्ति यत् विगत-वर्ष-त्रयाद्  [ online-संस्कृत-radio ] www.divyavanee.in... - इति नाम्ना संस्कृत-भाषिकान् विविधान् कार्यक्रमान् अहर्निशं प्रसारयति | पाण्डिचेरीस्थः श्री-ओरबिन्दो-आश्रमस्य समर्पित-विद्वान् डॉ.सम्पदानन्द-मिश्रः अस्य प्रसारणस्य प्रवर्तकः मार्गदर्शकश्च वर्त्तते | 

राष्ट्रिय-संस्कृत-संस्थान-श्रीलाल-बहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठ-तुल्यानि  संस्थानानि विश्वविद्यालयाश्च संस्कृत-पत्रकारितायाः पाठ्यक्रमान् आरभन्त | आशास्यते यत् कतिपय-कालानन्तरम् एतेभ्यः संस्थानेभ्यो निर्गताः प्रशिक्षिताः संस्कृतस्य पूर्णकालिकाः पत्रकाराः वार्त्ताहराश्च नूनं सक्रियाः भवितारः, अपि च, वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः कार्याणि प्रभावञ्च प्रवर्धयितारः |

 

विगत-वर्ष-द्वये केरळे चत्वारि लघु-चलचित्राणि संस्कृत-भाषया विनिर्मितानि, तानि च दर्शकैः अतितरां प्रशंसितानि | थिरुवनंतपुरम्-तः प्रचाल्यमाना मलयालम-भाषिका “जनम्”-  दृश्यवाहिनी २०१५-तमे वर्षे ओक्टोबर-मासे द्वितीय-दिनाङ्कात् [ गान्धि-जयन्ती-तः ] नियतरूपेण  प्रतिदिनं १५-मिनिटात्मकं संस्कृत-वार्त्ता-प्रसारणमारभत | विगत-वर्ष-द्वयात् दूरदर्शनतः प्रसार्यमाणः वार्त्तावलीति साप्ताहिकः संस्कृत-कार्यक्रमः सुतरां लोकप्रियतां भजते | एवं हि, विगत-वर्ष-पञ्चकात् आकाशवाण्याः इन्द्रप्रस्थ-वाहिकातः मासे द्विवारं [ प्रथमे तृतीये च शनिवासरे, रात्रौ सार्ध-नववादने ] प्रसार्यमाणः अर्ध-होरावधिकः “संस्कृत-सौरभम्” इति कार्यक्रमः श्रोतृभिः सुतरां स्पृह्यते | एतानि तथ्यानि परिभाव्य सविश्वासं वक्तुं शक्यते यत् वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः भविष्यत् सकारात्मकं समुज्ज्वलं चास्ति |       

                                                                          


- डॉ. बलदेवानन्द सागर
 
रचनाकार परिचय
डॉ. बलदेवानन्द सागर

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (2)