प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
अक्तूबर 2017
अंक -45

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

कविता
सबलं कुरुते विजया दशमी
 
सुयशस्तनुते विजया दशमी।
सबलं कुरुते विजया दशमी॥

मनुजास्तु मनन्ति हि रामजयम्,
हृदयेषु  धरन्ति  सतां  विनयम्
वरदा  रमते  विजया दशमी॥

सुखदा जगते न यतः खलता,
हृदयेषु   वसेन्ननु   सज्जनता
मनुजं क्षमते  विजया  दशमी॥

उचितं गमनं हि वरेण पथा,
प्रतिपादयते  शुभरामकथा
सुफलाय हिते विजया दशमी॥

सदने च वने रिपुरस्ति  रिपुः,
अमरं न कदापि जनस्य वपुः
शिवसत्यकृते विजया दशमी॥

क्रियतां मनुजैःस्वमनो विमलम्,
खलु दुःखमयं हि  कुकर्मफलम्
यतते  हि सते  विजया दशमी॥

मनुजाः प्रभवन्तु  सदा  सबलाः,
विकसन्तु विधाःविविधाश्च कलाः
दलिते  दयते  विजया  दशमी॥

दृढमस्ति हि भारतराष्ट्रमिदम्,
विदधाति तथा हृदयं विशदम्
सुगुणान् कवते विजया दशमी॥

- प्रेमशंकर शर्मा
 
रचनाकार परिचय
प्रेमशंकर शर्मा

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (3)